________________
वत्तिः
जायन्ते पदार्था अनेनेत्यङ्गलं-मानविशेषः, तच त्रिविधम्-आत्माङ्गुलमुत्सेधाङ्गुलं प्रमाणाङ्गुलं च, तत्रात्माङ्गलेन संग्रहणी
वास्तु मिमीष्व, तच त्रिधा-खातमुच्छूितमुभयं च, तत्र खातं कूपभूमिगृहतडागादि, उच्छ्रितं धवलगृहादि, उभयं। ॥११०॥ भूमिगृहादियुक्तधवलगृहादि । तथा देवादीनां शरीरमुत्सेधाङ्गुलेन मिमीष्व, प्रमाणाङ्गलेन पुनर्नगपृथिवीविमाना
दीनि मिमीप्व, तत्र नगा-मेर्वाद्याः, पृथिव्यो-धर्माद्याः, विमानानि-सौधर्मावतंसकादीनि, आदिशब्दाद्भवननरकावासद्वीपसमुद्राद्यपि प्रमाणाङ्गुलेन मिमीप्य ॥ २४४ ॥ अथात्माङ्गुलादिखरूपं किञ्चिदुच्यते-तत्र ये यस्मिन काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां यदात्मीयमङ्गुलं तदात्माङ्गुलम् , इदं च पुरुषाणां कालादिभेदेनानवस्थितमानत्वादनियतम् । उत्सेधो-देवादिशरीराणामुच्चत्वं, तन्निर्णयार्थमङ्गुलमुत्सेधाङ्गुलं, यथा-उत्सेधो| 'अणंताणं सहुमपरमाणुपुग्गलाणं समुदयसमिइसमागमेणं एगे ववहारपरमाणू' इत्यादिक्रमणोच्छयो वृद्धिस्तस्या
जातमङ्गलमुत्सेधाङ्गुलं, तथाहि-द्विधा परमाणुः-सूक्ष्मो व्यावहारिकश्च, तत्रानन्तः सूक्ष्मैः परमाणुभिर्विनसातोऽत्यशान्तनिचितैरेको व्यावहारिकः परमाणुनिष्पद्यते ॥ २४४ ॥ तस्य खरूपमाह
सत्थेण सुतिक्खेणवि, छित्तुं भिन्नुं व जं किर न सका । तं परमाणु सिद्धा, वयंति आई पमाणाणं ॥ २४५॥
॥११०॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org