________________
संग्रहणी
॥१०७॥
जया मोहोदओ तिबो, अन्नाणं सुमहन्भयं ।
पेलवं वेअणीयं तु, तया एगेंदिअत्तणं ॥ २३५॥ व्याख्या-श्लोकोऽयं, यदा मोहोदयो-मैथुनाभिलापस्तीब्रोऽत्यन्तगाढः, अज्ञानं चानाभोगरूपं सुमहाभयम्अतीवभैरवं, को नामाज्ञानान्न बिभेति ? येन जीवः सचेतनोऽप्यचेतन इव क्रियते, तथा पेलवम्-असारम् वेदनीयम्-असातरूपमुदयप्राप्तं भवति, तदैकेन्द्रियत्वं जायते । अन्ये त्वाहुः-यदा मोहोदयः-अज्ञानोदयस्तीवोऽत्यन्तरौद्रः, कथमस्य रौद्रता ? अत आह-अज्ञानं सुमहाभयमिति, शेषं प्राग्वत् ॥ २३५॥ तदेवमुक्तं तिरश्चामुपपातच्यवनयोर्विरहद्वारद्वयमेकसमयसंख्याद्वारद्वयं च, अथ के जीवास्तिर्यक्ष यान्तीति गतिद्वारमाह
तिरिएसु जंति संखाउ, तिरिनरा जा दुकप्पदेवा उ। पज्जत्तसंखगब्भयवादरभूदगपरित्तेसुं ॥ २३६ ॥
तो सहसारंतसुरा, निरया य पजत्तसंखगब्भेसु । व्याख्या-संख्यातवर्षायुष एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चो नराश्च एकद्वित्रिचतुःपञ्चेन्द्रियेषु तिर्यक्षु यान्ति, द्वौ कल्पौ यावदू देवास्त्विति-भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानवासिनो देवाः पुनः पर्याप्तसंख्यातायुष्कगर्भ
॥१०७॥
lain Education International
For Privale & Personal use only
www.jainelibrary.org