________________
Jain Education In
दिभावं लब्धवन्तः, यदुक्तं विशेषणवत्याम् - "अस्थि अनंता जीवा, जेहिं न पत्तो तसाइपरिणामो । तेवि अणंताणंता, निगोअवासं अणुवसंति ॥ १ ॥ एतदेवाह सूत्रकारः
अस्थि अनंता जीवा, जेहि न पत्तो तसाइपरिणामो । उप्पनंति चयंति य, पुणोवि तत्थेव तत्थेव ॥ २३३ ॥
व्याख्यातार्था, केवलमस्तीति निपातो बहुवचनार्थः ॥ अथ प्रत्येकवनस्पतिष्वप्यनन्तकायिकानां संभवमाहrasahar खलु, उग्गममाणों अनंतओ भणिओ । सो व विवतो, होइ परितो अणंतो वा ॥ २३४ ॥
व्याख्या - इह सर्व्वशब्दोऽपरिशेषवाची, ततः 'सर्वोऽपि निःशेषोऽपि वनस्पतिः प्रत्येकः साधारणो वा उद्गच्छन् | किसलयरूपः प्रथमपलवावस्थां प्राप्तोऽनन्तकायस्तीर्थकृद्गणधरैर्भणितः, स एव च किसलयरूपोऽनन्तकायो विवर्द्धमानः प्रत्येकोऽनन्तकायो वा भवति, प्रत्येकं चेच्छरीरं निर्वर्त्तितं तदा प्रत्येकः, साधारणं चेत्साधारणः । अथ | कियतः कालादूर्ध्वं प्रत्येकः स्याद् ?, उच्यते, अन्तर्मुहूत्तात् । निगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्त्तमेवावस्थानात् ॥ २३७॥ कदा पुनर्जीवस्यैकेन्द्रियत्वप्राप्तिरत आह
For Private & Personal Use Only
w.jainelibrary.org