________________
संग्रहणी
॥९८॥
बत्तीसाइसु समया, निरंतरं अंतरं उवरिं ॥ २१२ ॥
M वृत्तिः व्याख्या-द्वात्रिंशदादिष्ववधिभूतेषु सिध्यत्सु यथासङ्ख्यमुत्कर्षतोऽष्टादयः समया निरन्तरं प्राप्यन्ते, तत ऊर्ध्वमवश्यमन्तरं भवति । इयमत्र भावना-एकादयो द्वात्रिंशत्पर्यन्ता निरन्तरमुत्कर्षतोऽष्टौ समयान् यावत्सिध्यन्ति, ४ तथाहि-एकस्मिन् समये एको द्वौ वा यावत् द्वात्रिंशत् सिध्यन्ति, द्वितीयेऽप्येको द्वौ यावत् द्वात्रिंशत् , एवं तृतीयेऽपि यावदष्टमेऽपि समये एको द्वौ वा यावत् द्वात्रिंशत् सिध्यन्ति, ततः परमवश्यं समयाद्यन्तरं । यदा तु त्रयस्त्रिंशतमादिं कृत्वा यावदष्टाचत्वारिंशदेकसमयेन सिध्यन्ति, तदा उत्कर्षतो नैरन्तर्येण सप्त समयान् यावत् सिध्यन्ति, ततोऽवश्यमन्तरम् । एवमेकोनपञ्चाशदाद्याः षष्टिपर्यन्ता निरन्तरं सिध्यन्तः षट् समयान् यावत्प्राप्यन्ते, ततोऽन्तरम् । एवं सर्वत्र योज्यं, यावद्यदैकस्मिन् समये व्युत्तरं शतं उत्कर्षतो यावदष्टोत्तरं शतं सिध्यन्ति, तदा द्वितीये समये अवश्यमन्तरमिति ॥ २१२ ॥ द्वात्रिंशदादिष्वित्युक्तमतस्तानेव द्वात्रिंशदादीनवधीनाह
बत्तीसा अडयाला, सही बावत्तरी अ अवहीओ। चुलसी छन्नउई दुरहिअसयमद्दुत्तरसयं च ॥ २१३ ॥
॥
९
lain Education Inter
For Private Personal Use Only
Laltinelibrary.org