________________
संग्रहणी
वृत्तिः
॥९७॥
तह पुंवेएहितो, पुरिसा होऊण अटुसयं ॥ २१० ॥
सेसट्टभंगएसुं दस दस सिझंति एगसमयंमि ॥ व्याख्या-पुंवेदेभ्यो देवादिभ्य उदृत्ता जीवाः केचित्पुरुषा जायन्ते केचित् स्त्रियः केचिन्नपुंसकाः, एवं स्त्रीवेदेभ्यो-IA |ऽपि देवीप्रभृतिभ्य उद्धृत्तानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि नारकादिभ्यो भनत्रयं, सर्वसङ्ख्यया भङ्गा नव । तत्र ये|" पुंवेदेभ्य उदृत्त्य २ पुरुषा भूत्वा सिध्यन्ति तेषामेवैकस्मिन् समयेऽष्टशतं, शेषेषु पुनरष्टसु भङ्गकेषु प्रत्येकं दश दशैव ।।४ इदमुक्तं भवति-देवेभ्य आगताः पुरुषा भूत्वा एकसमयेनाष्टशतं सिध्यन्ति, स्त्रियो नपुंसकाश्च भूत्वा प्रत्येक दशैव, देवीभ्यस्त्वागताः पुरुषा अपि भूत्वा दशैव, एवं स्त्रियो नपुंसकाश्च । यत्तु 'वैमानिकदेवीभ्यो ज्योतिष्कदेवीभ्यो | नारीभ्यश्चागता विंशतिः सिध्यन्तीति'उक्तं, तत्र पुंस्त्रीनपुंसका द्विकसंयोगतस्त्रिकसंयोगतो वा मिलिताः सन्तो विंशतिः सिध्यन्ति, न पुनः केवलाः पुरुषाः स्त्रियो नपुंसका वा, यदपि 'विंशतिः स्त्रिय एकसमयेन सिध्यन्ती' त्युक्तं, तत्रापि काश्चित् पुरुषेभ्यः काश्चित् स्त्रीभ्यः काश्चिन्नपुंसकेभ्य आगताः सत्यो मिलिता विंशतिः सिध्यन्ति, न पुनः केव-1 |॥९७॥ |लेभ्यः पुरुषेभ्यः केवलाभ्यः स्त्रीभ्यः केवलेभ्यश्च नपुंसकेभ्यः, एवमनया दिशा सर्वेऽपि भङ्गा भावनीया इति । अपरश्चात्र विशेषो दर्यते यथा-नन्दनवने चत्वार एकसमयेन सिध्यन्ति, 'नंदने चत्तारी'ति वचनात् । एकतरस्मिन्
Jain Education Intematona
For Privale & Personal use only
www.jainelibrary.org