________________
अकायिकेभ्यश्चत्वारः। वनस्पतिकायिकेभ्यः षट् । पञ्चेन्द्रियतिर्यग्भ्यो दश । तिरश्चीभ्योऽपि दश । तेजोवायुकायिकेभ्यो विकलेन्द्रियेभ्यश्चागताः सिद्धिं न गच्छन्तीति वक्ष्यति । मनुष्येभ्यो दश । नारीभ्यो विंशतिः । असुरकुमारेभ्यो नागकुमारेभ्यो यावत् स्तनितकुमारेभ्यो व्यन्तरेभ्यश्च प्रत्येकं दश । असुरकुमारीभ्यो यावत् स्तनितकुमारीभ्यो , व्यन्तरीभ्यश्च प्रत्येकं पञ्च । ज्योतिष्केभ्यो दश । तद्देवीभ्यो विंशतिः । वैमानिकेभ्योऽष्टशतं । तद्देवीभ्यस्त्वागता विशतिरेकस्मिन् समये सिध्यन्ति । तथा च प्रज्ञापना-"अणंतरागया णं भंते ! नेरइआ एगसमएणं केवइआ अंतकिरिअं पकरेंति ? गोअमा ! जहन्नेणं एगो दो वा तिन्नि वा उक्कोसेणं दस, रयणप्पभापुढविनेरइआवि एवं चेव, जाव | वालुअप्पभापुढविनेरइआ पंकप्पभापुढविनेरइआ उक्कोसेणं चत्तारि। असुरकुमारा दस। असुरकुमारीओ पञ्च। एवं जहा असुरकुमारा से देवीओ तहा जाव थणिअकुमारा। पुढविकाइआ चत्तारि । एवं आउकाइआवि वणस्सइकाइआ छ । पंचिंदिअतिरिक्खजोणिआ दस पंचिंदिअतिरिक्खजोणिणीओवि दस ।मणुस्सा दस।मणुस्सीओ वीसं । वाणमंतरा दस वाणमंतरीओ पंच जोइसिआ दस । जोइसिणीओ वीसं । वेमाणिआ अट्ठसयं वेमाणिणीओ वीसमिति ।" सिद्धप्राभृते च देवगतेरन्यत्र गतित्रयेऽपि दशेत्युक्तं, 'सेसाण गईण दसगदसगं'ति, तत्त्वं पुनर्बहुश्रुताः केवलिनो वा विदन्तीति ॥ उक्ता नारकादिगतिभ्य आगतानां सामान्यतो विशेषतश्च सिद्धिः, अथ पुंवेदादिभ्य आगतानामाह
wain Education inte
For Privale & Personal use only
Onjainelibrary.org
१७