________________
रागमे श्रूयते, ततः कथमेतदिति ? अतो व्यक्ताभिः क्षमाश्रमणगाथाभिरेव किञ्चित्तत्त्वमुच्यते-"किह मरुदेवीमाणं, नाभीओ जेण किंचिदूणा सा? । तो किर पंचसय चिअ, अहवा संकोअओ सिद्धा ॥१॥ संकोचश्व हस्तिस्कन्धाधिरूढत्वात् । सत्तूसिएसु सिद्धी, जहन्नओ किहमिहं विहत्थेसु ?।सा किर तित्थयरेसुं, सेसाणमिअंतु सिद्धाणं ॥२॥ ते पुण होज बिहत्था, कुम्मापुत्तादओ जहन्नेणं । अन्ने संवटिअसत्तहत्थसिद्धस्स हीणत्ति ॥३॥” अथवा-यदिदमागमे सप्त हस्ता जघन्यं, पञ्चधनुःशतान्युत्कृष्टं मानमुन्तं, तद्वाहुल्या, अन्यथा जघन्यमङ्गुलपृथक्त्वैरुत्कृष्टं धनु:पृथक्त्वैः क्रमाद्धीनमधिकं च बोद्धव्यं, यदाह-“बाहुल्लओ अ सुत्तमि, सत्त पंच य जहन्नमुक्कोसं । इहरा हीणब्भहि, होजंगुलधणुपुहुत्तेहिं ॥१॥ अच्छेरयाइ किंचिवि, सामन्नसुए न देसि सवं । होज व अनिवद्धं चिअ, पंचसयाएसवयणं व ॥२॥" अत्राद्यगाथायामुत्कृष्टं शरीरमानं धनुःपृथक्त्वैरभ्यधिकानि पञ्चधनुःशतान्युक्तं, तच पञ्चविंशत्यधिकपञ्चधनुःशतरूपं बोद्धव्यं । 'मरुदेवीवि आएसंतरेण नाभितुल'त्ति सिद्धप्राभृतविवरणात् , तथा चात्र सिद्धप्राभृतसूत्रमपि--"ओगाहणा जहन्ना, रयणिदुगं अह पुणाइ उक्कोसा । पंचेव धणुसयाई, धणुहपुहुत्तेण अहिआइं॥३॥ एतट्टीकाव्याख्या च-पृथक्त्वशब्दो बहुत्ववाची, बहुत्वं चेह पञ्चविंशतिरूपं द्रष्टव्यमिति" । तथोर्द्धलोके एकसमयेनोत्कर्षतश्चत्वार एव सिध्यन्ति, एवमधोलोके द्वाविंशतिः, तिर्यग्लोके अष्टोत्तरं शतं । तथा समुद्रे द्वौ, शेषजले च हृदनद्यादिसम्बन्धिनि त्रयः । अत्र जले अधोलोके च विशेषःसिद्धप्राभृते “चत्तारि उडलोए,जले चउकं
lain Education in
For Privale & Personal use only
W
w.jainelibrary.org