________________
वृत्तिः
संग्रहणी
वीसित्थि दस नपुंसग, पुरिसट्टसयं तु एगसमएणं । ॥९५॥
सिज्झइ गिहि अन्न सलिंग, चउ दसट्टाहिअसयं च ॥ २०६॥ व्याख्या-एकसमयेनोत्कर्षतो विंशतिरेव स्त्रियो दशैव नपुंसकाः पुरुषाणा त्वष्टोत्तरशतमेव सिध्यन्ति । तथा लिङ्गशब्दस्य प्रत्येकं योगाद्गृहिलिङ्गे स्थिताश्चत्वार एवैकसमयेन सिद्धयन्ति, एवमन्यलिङ्गे दश, खलिङ्गे अष्टाधिकं शतं ॥ २०६॥ तथा
गुरुलहुमज्झिम दो चउ, अट्ठसयं उड्डहोतिरिअलोए।
चउबावीसट्टसयं, दु समुद्दे तिन्नि सेसजले ॥ २०७॥ है व्याख्या-उत्कृष्टदेहौ पञ्चधनुःशतोचौ द्वावेवैकसमयेनोत्कर्षतः सिध्यतः, एवं जघन्यदेहा हस्तद्वयोच्चाश्चत्वारः, मध्यमदेहा अष्टोत्तरं शतं । अत्र मुक्तियोग्य उत्कृष्टो देहः पञ्च धनुःशतानि जघन्यो द्वौ हस्तौ व्याख्यातस्ततः किञ्चिदागमाभिज्ञस्य यथावत्तत्त्वमजानतः स्यात्कस्याप्याशङ्का यथा-नाभः सपादपञ्चधनुःशतोच्चत्वे 'संघयणं संठाणं, उच्चत्तं| चेव कुलगरेहि समं ति मरुदेव्यपि तन्मानेति कथं तस्याः सिद्धिः?, तथा जघन्यतोऽपि सप्तहस्तोच्छ्रितानां सिद्धि
RECACASCACACADEOS
Jain Education in
For Privale & Personal use only
Diwww.jainelibrary.org