________________
चक्कं धणुहं खग्गो, मणी गया तहय होइ वणमाला।
संखो सत्त इमाइं, रयणाई वासुदेवस्स ॥ २०४ ॥ व्याख्या-सुगमा, केवलं गदा-कौमोदकीनामा प्रहरणविशेषः, वनमाला सदैवाम्लाना देवार्पिता, शङ्ख:पाञ्चजन्यो द्वादशयोजनध्वनिः ॥ २०४॥ उक्तं सप्रसङ्गं गतिद्वारं, अथैते नराः खभवादुदृत्ताः क्वागछन्तीत्यागति-11 द्वारमाह
संखनरा चउसु गईसु जंति पंचसुवि पढमसंघयणे ।
इग दु ति जा अट्ठसयं, इगसमए जंति ते सिद्धिं ॥ २०५ ॥ व्याख्या-सङ्ख्यातायुषो नराः, नरशब्दस्य जातिवाचकत्वात् मनुष्यजातिवर्तिनः स्त्रीपुंनपुंसकाश्चतसृषु-नारक-181 तिर्यगनरामररूपासु गतिषु तत्तद्योग्यपरिणामसम्भवे यान्ति-गच्छन्ति । त एव च प्रथमसंहनने सति 'पञ्चख-14 पीति' ताखेव मोक्षसहितासु गच्छन्ति । वज्रर्षभनाराचसंहननेनैव मोक्षं यान्तीत्यर्थः । ते च मनुष्यगतिवर्तिनः सामान्येन एकस्मिन् समये जघन्यत एको द्वौ त्रयो वा उत्कर्षतोऽष्टोत्तरं शतं सिद्धिं यान्ति ॥ २०५॥ अत्र वेदादिकृतान् विशेषानाह
Jain Education Inteles
For Privale & Personal use only
wि .jainelibrary.org