________________
संग्रहणी- समत्वकारी, यत्नविशेषाच व्यापार्यमाणो योजनसहस्रमप्यधो विदारयति ३, चर्मरत्नं छत्रस्याधश्चक्रवर्तिहस्तस्प-8 वृत्तिः
शंतो जातद्वादशयोजनायामविस्तारं प्रातरुतापराह्नसंपन्नोपभोग्यशाल्यादिकरं ४, खगो रणेष्वप्रतिहतशक्तिः ५, ॥९४॥
काकिनी वैताढ्यगुहयोरुभयभित्तिष्वेकोनपञ्चाशन्मण्डलकरणाधुपयोगिनी ६, मणिरूधिःस्थितयोश्छत्रचर्मरत्नयोरपान्तराले छत्रतुम्बे न्यस्तो द्वादशयोजनस्य चक्रवर्तिकटकस्य प्रकाशकस्तमिस्रखण्डप्रपातगुहाद्वये च प्रविशतश्चक्रिणो हस्तिशिरोन्यस्तो द्वादशयोजनानि यावत्पूर्वापरपुरोरूपासु तिसृषु दिक्षु महातमोघाती शिरोहस्तादिवद्धः समस्तरोगोपद्रयापहारी चेति ७, पुरोहितः शान्तिकर्मादिकृत् ८, गजतुरगौ महावेगपराक्रमी १०, सेनापतिर्गङ्गासिन्धुपरकूलवर्त्तिखण्डविजयी दण्डाभिधः११, गृहपति!होचितेतिकर्तव्यतापरः १२, वर्द्धकिहनिवेशादिसूत्रणादिकारी तमिस्रगुहायां खण्डप्रपातगुहायां चोन्मनजलानिमग्नजलयोनद्योश्चक्रवर्तिसैन्योत्तारणाय सेतुकारी च । तथा चावश्यकचूर्णिः-"तए णं से वडइरयणे भरहवयणसंदेसेणं तासु नईसु अणेगखंभसयसंनिविठं अचलमपं सालंबणबाहागं सवरयणामयं सुहसंकमं करेइ" १३, स्त्रीरत्नमत्यद्भुतकामसुखधाम १४, चतुर्दशाप्येतानिरत्नानि प्रत्येकं यक्षसहस्राधिष्ठितानि । तथैतानि जम्बूद्वीपे जघन्यपदे चतुणों चक्रिणां भावात् पट् पञ्चाशत् ५६, उत्कृष्टपदे अष्टाविंशतिर्विदेहे एकैको भरतैरावतयोरिति त्रिंशतश्चक्रिणां भावाचत्वारि शतानि विंशत्युत्तराणि ४२०, जम्बूद्वीपप्रज्ञत्यादिसंवादस्तु ग्रन्थगौरवभयान्न दयते ॥ २०२॥२०३॥ अथ वासुदेवरत्नान्याह
२४
JainEducation int
For Privale & Personal use only
(allw.jainelibrary.org