________________
SARSANCHAR
वामपमाणं चकं, छत्तं दंडं दुहत्थयं चम्म । बत्तीसंगुल खग्गो, सुवण्णकागिणि चउंगुलिआ ॥ २०२ ॥ चउरंगुलो दुअंगुल, पिहुलो अ मणी पुरोहिगयतुरया।
सेणावइगाहावईवड्डइथीचकिरयणाइं ॥ २०३ ॥ व्याख्या-चक्र, छत्रं, दण्डशब्दस्य पुनपुंसकलिङ्गत्वात् दण्डं, त्रीण्येतानि रत्नानि व्यामप्रमाणानि, व्यामो नाम * प्रसारितोभयबाहोः पुंसस्तिर्यगहस्तद्वयानुल्यग्रान्तरालं, यदमरः. 'व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम्' । चर्मरत्नं द्विहस्तदैर्घ्य । खड्गरत्नं द्वात्रिंशदङ्गुलदैय । सुवर्णकाकिणी चतुरङ्गुलिका-चतुरमुलप्रमाणं, जात्यवर्णमयं काकिणीरत्नमित्यर्थः । अत्र च काकिनिकाकिणिरिति च शब्दद्वयमौणादिकं, तत्र स्त्रियामीप्प्रत्यये काकिनी काकिणी चेत्युभयथाप्यदोषः । चतुरङ्गुलदी? द्यङ्गुलपृथुलश्च मणिः । एतानि सप्ताप्येकेन्द्रियाणि सर्वचक्रवर्त्तिनामात्माङ्गुलेन, शेषाणि तु सप्त पुरोहितादीनि पञ्चेन्द्रियाणि, तानि च तत्तत्कालीनपुरुषोचितमानानि, चक्रादिरत्नानां च खरूपं यथा-चक्रं समस्तायुधातिशायि दुर्जयारिविजयकरं १, छत्रं चक्रवर्तिहस्तस्पर्शमात्रोपजातद्वादशयोजनायामविस्तार, तद्वैताब्योत्तरदिग्वतिम्लेच्छाराधितमेघकुमारासुरमुक्ताम्बुभरनिरसनसमर्थ २, दण्डो विषमभुवः
in Education Inter
For Private
Personal use only
jainelibrary.org