________________
संग्रहणी
॥ ९३ ॥
Jain Education In
जह संभवमुवाओ, हयगयएगिंदिरयणाणं ॥ २०१ ॥
व्याख्या - वासुदेवा मनुष्यरत्नानि चानुत्तरविमानवासिभ्यो देवेभ्यो नोत्पद्यन्ते इयमत्र भावना - वासुदेवा | उक्तन्यायतो नारकवैमानिकेभ्य एवोत्पद्यन्ते, तत्र यदि वैमानिकेभ्यो वासुदेवा भवन्ति तदाऽनुत्तरसुरान्वर्जयित्वा शेषेभ्य एव । तथा चतुर्द्दश चक्रवर्त्तिनो रत्नानि, तत्र चक्रादीनि सप्तैकेन्द्रियाणि, पुरोहितादीनि सप्त पञ्चेन्द्रि याणि, तत्रापि गजतुरगवर्जानि पञ्च मनुष्यरूपाणि तत्र मनुष्यरत्नानि सप्तमपृथ्वीनारक तेजोवाय्वसङ्ख्यातायुस्तिर्यङ्करेभ्यो मनुष्योत्पत्तेः प्राग् निषेधात् शेषस्थानेभ्य एवोत्पद्यन्ते यदा च वैमानिकेभ्यश्युत्वा पुरोहितसेनाप| तिगृहपतिवर्द्धकिस्त्रीरूपाणि मनुष्यरत्नानि भवन्ति तदानुत्तरान् वर्जयित्वा शेषेभ्य एवेति । तथा हयगजैकेन्द्रियरत्नानां यथासम्भवमुपपातः येभ्यः स्थानेभ्यः सम्भवन्ति तेभ्यः सर्वेभ्योऽप्यविशेषेणैवोत्पद्यन्त इत्यर्थः । एतदुक्तं भवति - नारकसंख्यातायुस्तिर्यङ्करसहस्रारान्तदेवेभ्यो हयगजरलयोरुत्पादः, एतेभ्य एव तिरश्चामुत्पत्तेरभिधानात्, | एकेन्द्रियरत्नानां तु संख्यातायुस्तिर्यङ्करेभ्यः ईशानान्तदेवेभ्यश्चोत्पादः, एतेभ्यः एवैकेन्द्रियोत्पत्तेरुक्तत्वात् । अयं च यथासम्भवमुपपातः खरूपमात्रप्रदर्शन फलोऽपि मनुष्यरत्नानां विशेषाभिधान प्रस्तावात् स्थानाशून्यार्थमभिहित इति ॥ २०१ ॥ रलानामेव नामानि कियतामपि प्रमाणं च गाथाद्वयेनाह—
For Private & Personal Use Only
वृत्तिः
॥९३॥
ww.jainelibrary.org