________________
मायामुत्कृष्टं अवधिक्षेत्रं योजनं, द्वितीयस्यां सार्द्ध गव्यूतत्रयं, तृतीयस्यां गव्यूतत्रयं चतुर्थ्यांमद्धतृतीयानि गव्यूतानि, पञ्चम्यां द्वे गव्यूते, षष्ठ्यां साद्धं गव्यूतं, सप्तम्यामेकं गव्यूतं । जघन्यं तु सप्तस्वपि क्रमात् सार्द्धतृतीयानि गव्यूतानि त्रीणि अर्द्धतृतीयानि द्वे सार्द्धगव्यूतं गव्यूतं अर्द्धगव्यूतं चेति ॥ १९६ ॥ उक्तमागतिद्वारं, साम्प्रतं नारकवक्तव्यतामुपसंहरन् मनुष्यद्वारसम्बन्धनायाह
निरयदारं सम्मत्तं, मणुअदारं भण्णइ, अत्र च भवनद्वारवर्जान्यष्टौ प्रतिद्वाराण्यत आदौ स्थित्यवगाहनाद्वारे प्राह
गन्भनर तिपलिआऊ, तिगाउ उक्कोसतो जहन्नेणं ।
मुच्छिम दुहावि अंतमुहु अंगुलासंखभागतणू ॥ १९७ ॥ व्याख्या-इह नरा द्विधा, गर्भजाः संमूर्छिमाश्च, तत्र गर्भे जाताः गर्भजाः, मूर्च्छनं मूर्छः-गर्भमन्तरेवोत्पादस्तेन निर्वृता 'घञ् च भावादिम इति घञ्प्रत्ययान्तादिमप्रत्यये मूछिमाः। तत्र गर्भोपलक्षितनरा उत्कपंतस्विपल्योपमायुषः त्रिगव्यूतावगाहनाश्च । तथा ते गर्भजनरा जघन्यतो मूछिमनरास्तु 'दुहावि'त्ति उत्कर्षतो जघन्यतश्चान्तर्मुहूर्तायुषोऽङ्गुलासङ्ख्यातभागतनवश्च, केवलं मूछिमेषु उत्कृष्टाभ्यामन्तर्मुहूर्ताङ्गुलासङ्ख्ययभागाभ्यां
wain Education inte
For Privale & Personal use only
w.jainelibrary.org