SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ वृत्तिः . संग्रहणी-16 दिसामग्रीतो भावपरावृत्त्या पुनरेषां-सुरनारकाणां षट् लेश्याः । अयमभिप्रायः--तिर्यमनुष्याणां भवसंक्रान्तौ : ॥९०॥ शेषकालं च लेश्या लेश्यान्तरोपधाने विशुद्धवस्त्रमिव मञ्जिष्ठादिरागयोगे सर्वथा खरूपत्यागात्तद्रूपेणैव परिणमति, अन्यथैतल्लेश्यायाः पल्योपमस्थितेरपि सम्भवादुत्कर्षतोऽप्यन्तर्मुहूर्त्तमागमोक्तं विरुध्यते । देवनारकाणां तु लेश्यायास्तदन्यलेश्यायोगे तदाकारमात्रायेव जायते, न पुनस्तद्रूपता, तथाहि-यथा वैडूर्यादिमणिः प्रोतकृष्णादिसूत्रसम्पर्कादस्फुटं किञ्चित्तदाकारभावमात्रं स्फटिको वा जपाकुसुमादियोगतः स्पष्टं तत्प्रतिबिम्बमात्रं प्रतिपद्यते, न तूभावपि तद्रूपतां, तथैषां कृष्णादिलश्याद्रव्याणि नीलादिलेश्याद्रव्यौघं प्राप्य कदाचिदस्पष्टं तदाकारभावमात्रं कदाचित्स्पष्टं तत्प्रतिविम्बमात्रं प्रतिपद्यन्ते, न पुनस्तद्वर्णगन्धरसस्पर्शतया परिणम्य नीलादिलेश्याद्रव्याण्येव भव|न्ति । एवं च सप्तमपृथिव्यामपि यदा कृष्णलेश्या तेजोलेश्यादिद्रव्याणि प्राप्य तदाकारमात्रेण तत्प्रतिबिम्बमात्रेण वाऽन्विता भवति, तदा कृष्णलेश्याद्रव्ययोगेऽपि साक्षात् तेजोलेश्यादिद्रव्यसाचिव्ये इव शुभः परिणामो ले नारकस्य जायते, जपोपरक्तस्फटिकस्य रक्ततावत् , तत्परिणामस्य चास्य सम्यक्त्वावाप्तिरविरुद्धेति । नचैवमपि तेजोलेश्यादिसद्भावे सप्तमपृथिव्यां केवलकृष्णलेश्याद्यभिधायिनः सूत्रस्य व्याघातो, यतस्तस्यां कृष्णैव सदाऽवस्थायिनी, ४ तेजस्यादिका त्वाकारमात्रादिना कदाचिदेव जायते, न च जाताऽपि चिरमवतिष्ठते, न चावस्थितायामपि तस्यां । कृष्णलेश्याद्रव्याणि खवरूपं त्यजन्ति, ततोऽधिकृतसूत्रे कृष्णैव सप्तम्यामुक्तेत्येवं सर्वत्र भावनीयम् । अत एव संगम-| ॥९० Main Education interational For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy