________________
Jain Education Inte
| ऽप्यस्याः पल्योपमासङ्ख्येयभागाधिकदश सागरोपमस्थितिकत्वात् शेषाणां कृष्णा । 'द्वयोः ' षष्ठीसप्तम्योः कृष्णैव नवरं सप्तम्यां परमकृष्णा । एवं सप्तखपि विभक्ता भवन्ति लेश्याः ॥ १९३॥ अत्राहुः केचित् - यथैता नारकाणां प्रागुक्ताश्च सुराणां वाह्मवर्णरूपा द्रव्यलेश्याः प्रतिपत्तव्याः, अन्यथा सप्तमपृथ्वीनारकाणां सम्यक्त्वावाप्तिः श्रुताभिहिता न युज्यते, उपरितनलेश्यात्रये एवागमे तदवाप्तेरुक्तत्वात् यदाह - " सम्मत्तस्स य तिसु उवरिमासु पडिवजमाओ होइ । पुवपडिवन्नओ पुण, अन्नयरीए उ लेसाए ॥ १ ॥” उपरितन्यश्च लेश्यास्तेषां न सन्ति, कृष्णाया एव सप्तमपृथिव्यामुक्तत्वात् । तथा सौधर्मे तेजोलेश्यैवोक्ता, अस्याश्च प्रशस्तपरिणामहेतुत्वेन संगमकादीनां भुवनगुरौ रौद्रोपसर्ग कर्तृत्वानुपपत्तिः तथा च सप्तमपृथिव्यां सम्यक्त्वान्यथानुपपत्त्या तेजोलेश्यादिसद्भावे 'आइतिलेसाउ नरपसुं' ति नियमोऽपि विरुध्यते, तस्माद्वाह्यवर्णरूपा एवैता इति । एतन्निराकरणार्थमाह
सुरनारयाण ताओ, दबलेसा अवट्टिआ भणिआ । भावपरावत्तीए, पुण एसिं हुंति छल्लेसा ॥ १९४ ॥
व्याख्या - अत्र यास्तेजआद्यास्तिस्रः सौधर्म्मादिदेवानां याश्च कृष्णाद्यास्तिस्रो नारकाणां लेश्या उक्ताः, ता अवस्थिता द्रव्यलेश्याः आगमे भणिताः, लेश्याद्रव्याण्यवस्थितानीत्यर्थः, न पुनर्वायवर्णरूपाः, तत्तद्रव्यक्षेत्रकाला
For Private & Personal Use Only
ww.jainelibrary.org