SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥ ८९ ॥ Jain Education व्याख्या—सेवार्त्ते संहनने सत्युत्कर्षतो द्वे एव - रत्नशर्कराप्रभे प्रथमपृथिव्यौ यावद्गच्छन्ति जीवा, न परतः । ततः पश्चानुपूव्यैव कीलिकादौ संहनने एकैकपृथ्वीवृद्धिः कार्या यथा - कीलिकाख्ये तृतीयां यावत् अर्द्धनाराचे चतुर्थी नाराचे पञ्चमीं ऋषभनाराचे षष्ठीं वज्रर्षभनाराचे सप्तमीं यावदिति । एषा च गतिरुत्कृष्टा । जघन्या तु सर्वैरपि संहननैरध्यवसायमान्द्याद्रप्रभायाः प्रथमे प्रतरे, मध्यमा पुनर्जघन्याया ऊर्ध्वं यथाखमुत्कृष्टाया अर्धा| गिति । तथा लेश्यापटुमध्यादाद्यास्तिस्रो लेश्याः कृष्णनीलकापोताख्या नरकेषु भवन्ति ॥ १९२॥ श्यामेव प्रतिपृथिवि विभागेनाह दुसु काऊ तइआए, काऊ नीला य नील पंकाए । धूमाऍ नीलकिण्हा, दुसु किण्हा हुंति लेसाउ ॥ १९३ ॥ व्याख्या- 'द्वयोः' प्रथमद्वितीययोः पृथिव्योर्लेश्या कापोता, केवलं शर्करायां क्लिष्टतरा । एवमन्याखपि सजा|तीया विजातीया च लेश्याऽघोऽधः क्लिष्टतरा क्लिष्टतमा च वाच्या । तृतीयस्यां 'काऊ नीला य'त्ति केषाञ्चित् प्रथमप्रतरगतानां नारकाणां कापोता, उत्कर्षतोऽप्यस्या लेश्यायाः पल्योपमासङ्ख्येयभागाधिकसागरोपमत्रयस्थितिकत्वात् शेषाणां नीला । पङ्कायां केवला नीला । धूमायां केषाञ्चिदाद्यप्रतरगतानां नारकाणां नीला, उत्कर्षतो For Private & Personal Use Only ** वृत्तिः, ॥ ८९ ॥ www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy