________________
पउणट्टधणु छअंगुल, रयणाए देहमाणमुक्कोसं।
सेसासु दुगुणदुगुणं, पण धणुसय जाव चरिमाए ॥ १८२ ॥ व्याख्या-रत्नप्रभायां नारकाणामुत्कृष्टं देहोचत्वमानं पादोनान्यष्टौ धनूंषि षटू चाङ्गुलानि, शेषासु पट्खेतदेव द्विगुणद्विगुणं भवति, यावत्सप्तम्यामुत्कृष्टं देहमानं पञ्च धनुःशतानि, तथाहि-रत्नप्रभायां सप्त धनूंषि त्रयो हस्ताः षट्र चाङ्गुलानि, शर्करायां पञ्चदश धषि द्वौ हस्तौ द्वादश चाङ्गुलानि, वालुकायामेकत्रिंशद्धनूंषि एको हस्तः, पङ्कायां द्वापष्टिधषि द्वौ हस्ती, धूमायां पञ्चविंशं धनुःशतं, तमःप्रभायां साढ़े द्वे धनुःशते, तमस्तमःप्रभायां पञ्च धनुःशतानि ॥ १८२॥ उक्तमोघतः सप्तखपि पृथ्वीपूत्कृष्टं शरीरमानम्, अथैतदेव प्रतिप्रतरं विवक्षुः, प्रथम रत्नप्रभायामाह
रयणाएँ पढमपयरे, हत्थतिअं देहमाणमणुपयरं ।
छप्पन्नंगुल सड्ढा, वुड्डी जा तेरसे पुण्णं ॥ १८३ ॥ व्याख्या-रत्नप्रभायाः प्रथमे प्रतरे उत्कर्पतो देहमानं त्रयो हस्ताः, ततः परमनुप्रतरं-प्रतरे २ पूर्वपूर्वप्रतरगतदेहमानस्योपरि वृद्धिः सार्द्धानि षट्पञ्चाशदङ्गुलानि, द्वौ हस्तौ सार्द्वान्यष्टावङ्गुलानि चेत्यर्थः । यावत्रयोदशे प्रतरे ६ यथोक्तं मानं पूर्णमिति ॥ १८३॥ त्रयोदशखपि प्रतरेषु क्रमेण स्थापना॥
wain Education inte
For Privale & Personal use only
R
w.jainelibrary.org