SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ संग्रहणी प्रवि हस्रगुणितैरूना कर्तव्या। ततः प्रतरापेक्षया अन्तराणामेकोनत्वाद्रूपोनैः खखप्रतरैर्भागे हृते यदागच्छति तत्प्रस्तरस्य प्रस्तरस्यान्तरं भवति, तथाहि-रत्नप्रभाया वाहल्यमशीतियोजनसहस्राधिकं लक्षं, तचोपरितनेनाधस्तनेन च योजनसहस्रेण हीनं क्रियते, जातमष्टसप्ततिसहस्राधिकं लक्षं, तत एतस्मात्रयोदश प्रतराः त्रिसहस्रगुणिता एकोनचत्वारिंशत्सहस्ररूपा अपनीयन्ते, स्थितमेकोनचत्वारिंशत्सहस्राधिकं लक्षं, तस्य स्खप्रतरै रूपोनत्वात् द्वादशभिर्भागे हृते लब्धमेकादश योजनसहस्राः पञ्च शतानि त्र्यशीत्यधिकानि ११५८३, शेषं चत्वारि योजनानि, चत्वारो द्वादशभागा योजनस्य, छेद्यच्छेदकराश्योश्चतुर्भिरपवर्तने लब्धो योजनस्य त्रिभागः, एतावत्प्रमाणं रत्नप्रभायां प्रतराणां परस्परमन्तरं । तथा चोक्तम्-"तेसीआ पंचसया, एक्कारस चेव जोअणसहस्सा । रयणाए पत्थडंतरमेगो चिअ जोअणतिभागो ॥१॥" एवं शेषाखपि करणं भावनीयं, केवलमागतमुपदयते-"सत्ताणउइ सयाई, बीआए पत्थडंतरं होइ ९७००। पणसत्तरि तिन्नि सया, बारस य सहस्स तइआए १२३७५ ॥१॥ छावट्ठसयं सोलससहस्स पंकाए दो तिभागा य १६१६६३ अड्डाइज सयाई, पणवीस सहस्स धूमाए २५२५० ॥२॥ बावन्न सहस्साई, पंचेव हवन्ति जोअणसयाई । पत्थडंतरमेअंतु, छटपुढवीऍ नेअचं ५२५००॥३॥" सप्तम्यां त्वेक एव प्रतर (प्रस्तट) इति न तत्रान्तरसम्भव इति ॥ १८१॥ उक्तं नारकाणां सप्रसङ्गं भवनद्वारं, सम्प्रत्येषामेव अवगाहनाद्वारमाह lain Education in For Privale & Personal use only Kiwww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy