________________
तत्संस्थानाः। तथाहि-उपरि च्छत्रं लघु तस्याधो महत्ततोऽप्यधो महत्तरं, एवमेता अप्यधोऽधो महाविस्तराः१६५॥ पृथ्वीनां पिण्डमाश्रयं चाह
असिइ बत्तीसडवीस वीस अट्ठार सोल अड सहसा । लक्खुवरि पुढविपिंडो, घणुदहिघणवायतणुवाया ॥ १६६ ॥ गयणं च पइट्टाणं, वीस सहस्सा य घणउदहिपिंडो। घणतणुवायागासा, असंखजोअणजुआ पिंडे ॥ १६७ ॥ युग्मम्॥
व्याख्या-प्रमाणाङ्गुलेनैकैकलक्षस्योपरि क्रमादशीतिद्वात्रिंशत् अष्टाविंशतिर्विशतिरष्टादश षोडश अष्टौ च योजनसहस्राः, पृथ्वीनां सप्तानामपि पिण्डः-स्थूलत्वं । तथा घनोदधिधनवाततनुवाता गगनं च सप्तानामपि पृथ्वीनां प्रत्येकं प्रतिष्ठानम्-आश्रयः, तत्र घनोदधिधनवातौ प्राग्व्याख्यातो, तनुवातगगने तु प्रतीते, तत्रानन्तरं घमा घनोदधौ प्रतिष्ठिता, स धनवाते, सोऽपि तनुवाते, तनुवातोऽप्याकाशे, आकाशं च खस्मिन्नेव प्रतिष्ठितम् , एवं शेषपृथिव्योऽपि, सप्तखपि च पृथ्वीषु घनोदधीनां पिण्डस्थूलत्वं मध्यभागे विंशतिर्योजनसहस्राणि, घनवाततनु
Jain Education in
For Private Personal Use Only
Miw.jainelibrary.org