________________
संग्रहणी
॥७९॥
सुगमा, नवरं गावस्त्रायन्त इति गोत्राणि, नामान्येव सान्वयानि । तद्यथा-रत्नानि वज्रादीनि, प्रभाशब्दोऽत्र रूपवाची बाहुल्यवाची च, ततो रत्नानि प्रभा-रूपं खभावो रत्नानां वा प्रभा-बाहुल्यं यस्यां सा रत्नप्रभा, रत्नरूपा रत्नमयी रत्नबहुलेत्यर्थः । तद्बाहुल्यं च खरकाण्डगतप्रथमरत्नकाण्डापेक्षं, तथाहि-अस्यां षोडश योजनानां सहस्राः प्रथम खरकाण्डं, चतुरशीतिर्द्वितीयं पङ्कबहुलकाण्डं, अशीतिस्तृतीयं जलबहुलकाण्डमिति । शेषास्तु पृथिव्यः सर्वा अपि पृथ्वीखरूपाः, केवलं शर्कराप्रभा शर्कराबहुलेत्यादिनामानुसारतोऽन्वर्थो भावनीयः यावत्तमस्तमस्य प्रकृष्टतमसस्तमस्तमसो वाऽत्यन्ततमसः प्रभा-बाहुल्यं यस्याः सा तमस्तमप्रभा तमस्तमःप्रभा वेति, उक्तं च-"तत्थ सहस्सा सोलस खरकण्डं पङ्कबहुलकण्डं तु। चुलसीइ सहस्साई, असीइ जलबहुलकंडं तु ॥१॥ एवं असीइलकखो, खरकंडा| ईहिं घम्मपुढवीए । सेसा पुढवीसरूवा, पुढवीओ इंति बाहुले ॥२॥” इति ॥ १६४ ॥ पृथ्वीनामेव नामानि संस्थानं चाह
घम्मा वंसो सेला, अंजणे रिट्ठों माँ य माघबई।
नामेहिं पुढवीओ, छत्ताइच्छत्तसंठाणा ॥ १६५ ॥ सुगमा-नवरं नामानि निरन्वयाः संज्ञाः, तथा सप्तापि पृथिव्यः समुदिताश्छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रं
KAKACCCCCCASICAL
Jain Education inte
For Privale & Personal use only
Yiw.jainelibrary.org