________________
संग्रहणी
॥ ७६ ॥
व्याख्या—यः प्राग्भवे दाहच्छेदादिना मृतोऽनतिसंक्लिष्टो नारको जायते, न तस्य प्राग्भवानुबद्धं नापि क्षेत्रपर| माधार्मिकान्यकृतमसातमित्यसानुपपातसमये सातं वेदयते, देवकर्मणा यथा बलदेवात् कृष्णस्य वेदनोपशमः, सोऽपि कञ्चित्कालं, तत ऊर्ध्वमवश्यं क्षेत्रजाऽन्या वा वेदना स्यादेव, अध्यवसानाद्यथा सम्यक्त्वलाभे चक्षुर्लभ इव जाल - अन्धस्य, तत ऊर्ध्वं वा कदाचित्तीर्थकृदादिगुणानुमोदनादेर्वाह्य वेदनाभावेऽपि तीर्थकुजन्माद्यपेक्ष्य सातकर्मणो विपाकोदयतो वेति । सा च वेदना त्रिविधा -क्षेत्रजा, परस्परजा, परमाधार्मिककृता च । तत्र क्षेत्रजा रतशर्करा - वालुकाप्रभासूष्णा, एते नरकाः शीतयोनिकत्वेन केवलहिमप्रख्यशीत प्रदेशात्मकत्वात् योनिस्थानादन्यत्र च | सर्वस्यापि भूम्यादेः खादिराङ्गारेभ्योऽप्यत्यन्ततप्तत्वादुष्णवेदनामनुभवन्तीति प्रवचनवेदिनः एवमन्याखपि भाव - नाभ्यया । पङ्कायां बहूषूपरितनेषु नरकावासेपूष्णा, अधः स्तोकेषु शीता, धूमायां बहुतु शीता स्तोकेपूष्णा, पक्ष्यां सप्तम्यां च केवला शीतैव । इयं च वेदना सर्वाप्यधोऽधोऽनन्तगुणतया तीव्रा तीव्रतरा तीव्रतमा च तत्र नरके पूष्णवेदनायाः शीतवेदनायाश्च स्वरूपमेवमागमज्ञाः प्रज्ञापयन्ति यथा - निदाघचरससमये नभोमध्यमधिरूढे चण्डमहसि मेघवियुक्ते नभसि कत्यापि पुंसोऽत्यन्तं पित्तप्रकोपाभिभूतस्य निषिद्धातपवारणस्य सर्वतो दीप्तवहिज्वालाकरालस्य यादृगुष्णवेदना जायते, ततोऽप्युष्णवेदनेषु नरकेषु नारकाणामनन्तगुणा । अपि च यदि नारका | उष्णवेदनेभ्यो नरकेभ्य उत्पाट्य ज्वलत्खादिराङ्गारराशौ प्रक्षिप्य ध्मायन्ते, तदा चन्दनलिप्ता इवात्यन्तसुखा
Jain Education International
For Private & Personal Use Only
वृत्तिः,
॥ ७६ ॥
www.jainelibrary.org