SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter 464646 व्याख्या - उपरितनक्षितौ या उत्कृष्टा स्थितिस्तस्या इष्टपृथिव्युत्कृष्टस्थितेः सकाशाद्विश्लेषे - अपनयने शेषमप्युपचाराद्विश्लेषः, स खकप्रतरैर्विभज्यते, लब्धं चेष्टप्रतरसंख्यया गुण्यते, गुणिते चागतमुपरितनक्षित्युत्कृष्टस्थिति| सहितमिष्टप्रतरे उत्कृष्टा स्थितिर्भवति । यथा - शर्कराप्रभायामुत्कृष्टा स्थितिस्त्रीणि सागरोपमाणि, तेभ्यो रत्नप्रभास| त्कोत्कृष्टा स्थितिरेकसागरोपमरूपा विश्लेष्यते, स्थिते द्वे सागरोपमे, तयोः शर्कराप्रभागतैरेकादशभिः प्रतरैर्भागे हृते लब्धौ द्वौ सागरोपमस्यैकादशभागौ, ताविष्टैकप्रतरगुणितावपि द्वावेव, उपरितनोत्कृष्टस्थितिसाहित्ये च जाता | शर्कराप्रभायाः प्रथमे प्रस्तटे उत्कृष्टा स्थितिरेकमतरं द्वौ चैकादशभागावतरस्य । एवं प्रतिप्रतरं तावद्भागद्वयवृद्धिर्यावदेकादशे प्रतरे एकमतरं द्वाविंशतिर्भागा, एकादशभिश्च भागैरतरकरणे जातानि त्रीण्यतराणि, या च पूर्वपूर्वप्रस्तटे उत्कृष्टा सा उत्तरोत्तरप्रस्तटे प्रागुक्तप्रकारेण जघन्या । अत्रापि यत्रकस्थापना । एवमन्यत्रापि करणभावना कार्या, केवलं वालुकापङ्कधूमतमः प्रभासु चतसृषु सुखावबोधार्थ चतुर्णां यत्रकाणां स्थापना । तमस्तमः प्रभायां त्वेक एव प्रतरस्तत्र द्वाविंशतिर्जघन्या, त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिरिति । एतावतीं च खखस्थितिं याव - नारकाः सदा वेदनार्त्ताः, यज्जीवाभिगमः – “अच्छिनिमीलणमित्तं, नत्थि सुहं दुकखमेव अणुबद्धं । नरए नेरइआणं, अहोनिसिं पञ्चमाणाणं ॥ १ ॥ " विशेषाश्चात्र यथा उववाएण व सायं, नेरइओ देवकम्मुणा वावि । अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं ॥ १ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy