________________
संग्रहणी
वृत्तिः .
सेसेसु उवरिजिट्टा, अहो कणिठा उ पइपुढविं ॥ १६१ ॥ व्याख्या-रत्नप्रभायां प्रथमे प्रतरे उत्कृष्टा स्थितिनवतिः समानां-वर्षाणां सहस्राः ९००००, एवं द्वितीये 2 नवतिवर्षलक्षाः ९००००००, तृतीये पूर्वाणां वक्ष्यमाणरूपाणामेका कोटिः, चतुर्थे सागरोपमस्य दशमो भागः, अत ऊर्ध्व पञ्चमादिषु तावदेकैकभागवृद्धिर्यावत् त्रयोदशे प्रतरे दशभिर्भागैः पूर्ण सागरोपमं, इत्युक्तनीत्या ज्येष्ठा स्थितिरुक्ता, जघन्या पुनः प्रथमप्रतरद्विकं क्रमाद्दशवर्षसहस्राः दशवर्षलक्षाश्च, शेषेषु तृतीयादिषु प्रतरेषु यैवोपर्युहापरि ज्येष्ठा स्थितिः सैवाधोऽधः कनिष्ठा भवति, एवमधोऽधः कनिष्ठा तु प्रतिपृश्चि बोद्धव्या । व्यक्तं चैतत्तथाप्यतिस्पष्टतार्थ यवस्थापना ॥ १६०-१६१॥
उक्ता रत्नप्रभायामुत्कृष्टा सर्वासु च जघन्या प्रतिप्रतरं स्थितिः, साम्प्रतं शेषपृथ्वीषु प्रतिप्रस्तटमुत्कृष्टस्थित्यभिधानार्थ करणमाह
उवरिखिइठिइविसेसो, सगपयरविहत्तु इच्छसंगुणिओ। उवरिमखिइठिइसहिओ, इच्छिअपयरंमि उक्कोसा ॥ १६२ ॥
॥ ७५॥
Jain Education interational
For Privale & Personal use only
www.jainelibrary.org