________________
-
GEOGORG
व्याख्या-'अयर'त्ति, सर्वत्र सम्बन्धाद्रत्नप्रभायामेकं सागरोपमं ज्येष्ठा-उत्कृष्टा स्थितिः, एवं शर्कराप्रभायां त्रीणि, वालुकाप्रभायां सप्त, पङ्कप्रभायां दश, धूमप्रभायां सप्तदश, तमःप्रभायां द्वाविंशतिः, तमःतमःप्रभाया त्रयस्त्रिंशसागरोपमाणि, एवं सप्तमु पृथ्वीषु ज्येष्ठा स्थितिरुक्ता । एषा च 'उवरिम'त्ति उपर्युपरिपृथ्वीगता ज्येष्ठा स्थितिरधस्तन्यामधस्तन्यां पृथिव्यां क्रमेण कनिष्ठा-जधन्या भवति । तथाहि-या रत्नप्रभायामेकसागरोपमरूपोत्कृष्टा स्थितिः, सा शर्कराप्रभायां जघन्या । एवं यावत्तमस्तमःप्रभायां कालादिषु नरकावासेषु द्वाविंशतिः सागरोपमाणि जघन्या, प्रथमायां तु रत्नप्रभायां दशवर्षसहस्राणि जघन्येति । जघन्योत्कृष्टान्तरालवर्तिनी तु स्थितिः सर्वत्र मध्यमा बोद्धव्या ॥ १९॥
इह सप्तखपि पृथ्वीपु प्रतरसंख्या 'तेरिकारसनवसगपणतिन्निगपयर' इति वक्ष्यमाणा, ततः प्रतिप्रतरं स्थिति विवक्षुरादौ रत्नप्रभायामुत्कृष्टां सर्वासु च जघन्यां प्रतरस्थितिं गाथाद्वयेनाह--
नवइसमसहसलक्खा, पुवाणं कोडि अयरदसभागो। एगेगभागवुड्डी, जा अयरं तेरसे पयरे ॥ १६०॥ इअ जिट्ट जहन्ना पुण, दसवाससहस्स लक्ख पयरदुगे ।
-6-04-- O CRACK
CAUSCAMCMCN
RANCREM
lain Education inte
For Privale & Personal use only
w.jainelibrary.org