________________
निद्रामपि लभेरन् । तथा पौषे माघे वा रात्री निरभ्र नभसि हृदयादिकम्पकृति चातिमारुते हिमाचलस्थलीकृत|स्थितेनिरनिराश्रयस्य निरावरणस्य तुषारकणसिक्ताङ्गस्य पुंसो या शीतवेदना, ततोऽपि शीतवेदनेषु नरकेषु नारकाणामनन्तगुणा । किञ्च–यदि नारकाः शीतवेदनेभ्यो नरकेभ्य उत्पाट्य यथोक्तपुरुषस्थाने स्थाप्यन्ते, तदा ते प्राप्तात्यन्तनिर्वातस्थाना इव निरुपमसुखा निद्रामप्यासादयेयुरिति । योऽपि बन्धनगतिसंस्थानभेदवर्णगन्धरसस्पर्शागुरुलघुशब्दरूपो दशविधः पुलानां परिणामः, सोऽपि नरकेषु तथाक्षेत्रखाभाव्यादतिदुःखदः । तथाहिप्रतिक्षणमाहायस्तैस्तैः पुद्गलैः सार्द्ध सम्बन्धलक्षणो बन्धनपरिणामो नारकाणां ज्वलद्वह्रियोगादप्यतिदारुणः १॥ गतिरुष्ट्रादेरिव, सापि तप्तलोहपदन्यासतोऽप्यत्यन्ततीव्रा २॥ संस्थानमत्यन्तहुण्डं लूनपक्षाण्डजनिमं, दृष्टमा-1 त्मनोऽप्युद्वेजकं ३॥ भेदः कुड्यादिभ्यः पुद्गलानां विचटनं, सोऽपि शस्त्रधारानिपातोपमः ४॥वर्णः सर्वनिकृष्टो विभीषणः, नरकावासा ह्यविद्यमानद्वाराः सर्वतो नित्यान्धकारा विण्मूत्रश्लेष्मस्रोतोमलरक्तवसामेदपूयलि-| सतलाः श्मशानवन्मांसकेशास्थिनखदन्तचर्मास्तीर्णभुवश्चेति ५ ॥ गन्धः श्वशृगालाहिमार्जारनकुलादिमृतकवपुः-- काथादप्यशुभः ६ ॥ रसो घोषातक्यादिनिस्स्यन्दादपि कटुः ७ ॥ स्पर्शो वृश्चिककपिकच्छाः स्पर्शादप्यतिरोद्रः ८॥ अगुरुलघुपरिणामोऽप्यनेकदुःखाश्रयः ९॥ शब्दोऽपि सततं पीडयाक्रान्तानामत्यन्तार्तविलापरूपो महादुः-४ खकारी १० ॥ तथान्याप्यागमे नारकाणां दशविधा वेदनोक्ता, यथा-"नेरइआणं भन्ते ! कइविहं वेअणं |
RCCCORRECRRC-R4
wain Education inte
For Privale & Personal use only
Mw.jainelibrary.org