________________
Jain Education Inte
व्याख्या - ऊनेऽर्द्ध सागरोपमे आयुषि सति भवनपतिव्यन्तरज्योतिष्कदेवाः सङ्ख्यानि योजनान्यवधिना पश्य - |न्ति । ततः परमधिकायुषोऽसंख्येयानि योजनानि, केवलमायुर्वृद्ध्या योजनासंख्यातकस्यापि वृद्धिर्वाच्या । तथा लघु-जघन्यमवधिक्षेत्रमेषां पञ्चविंशतियोजनानि तानि च दशवर्षसहस्रायुषां भवनपतिव्यन्तराणामेव बोद्धव्यानि । ' पणवीसजोअणाई दसवास सहस्सिओ ठिई जेसि' मित्यागमात् । ज्योतिष्काणां पुनरसंख्येयस्थितिकत्वाज्जघन्यतोऽप्यवधिक्षेत्रं संख्येययोजनप्रमिताः संख्येया द्वीपसमुद्राः, उत्कर्षतोऽपि ते एव, केवलमधिकतराः, अयमेवार्थोऽतिस्पष्टनार्थमावश्यकचूर्ण्यक्षरैर्विवेकेन दर्श्यते, यथा “दसण्हवि भवणवासीणं जहन्नओ पणवीसं जोअणाई, उकोसओ असुरकुमारवजाणं संखेजाई जोअणाई । असुरकुमाराणं पुण असंखेजे दीवसमुद्दे । वाणमन्तराणं जहन्नुकोसओ ओही जहा असुरवज्जाणं भवणवासीणं, जोइसिआणं जहन्नेणवि उक्कोसेणवि संखेजे दीवस मुद्दे " इति ॥ | साम्प्रतं नारकामरतिर्यङ्कराणामवधिक्षेत्रस्य संस्थानं किञ्चिदूनगाथाद्वयेनाह —
नारयभवणवणजोइकप्पाणं । गेवेजणुत्तराण य, जहसंखं ओहिआगारा ॥ १५५ ॥ तप्पागारे पल्लगपडहगझल्लरिमुइंग पुप्फजवो ।
For Private & Personal Use Only
*%% %% *% *%%%%%
www.jainelibrary.org