________________
केसहिमंसनहरोमरुहिरवसचम्ममुत्तपुरिसेहिं । रहिआ निम्मलदेहा, सुगंधिनीसासगयलेवा ॥ १४६ ॥ अंतमुहुत्तेणं चिअ, पजत्ता तरुणपुरिससंकासा ।
सवंगभूसणधरा, अजरा निरुआ समा देवा ॥ १४७ ॥ व्याख्या-सर्वेऽपि देवाः प्राग्भवोपात्तशुभकर्मोदयप्रभावात्सदैव केशास्थिश्मथुनखरोमरुधिरवसाचर्ममूत्रपुर रहिताः, तथा निर्मलदेहा-अवदातशरीरपुद्गलाः, सुगन्धिनिःश्वासा-विशिष्टपरिमलाभिराममुखमारुताः, गतलेपा
जात्यखर्णवत् रजःप्रखेदाधुपलेपरहिताः, उपलक्षणं चेदं, तेन सर्वोत्तमवर्णगन्धरसस्पर्शसौभाग्यादिगुणग्रामाभितारामविग्रहास्ते इति । तथा उत्पत्तिसमये अन्तर्मुहूर्तेनैव पर्याप्ताः सन्तस्तरुणपुरुषसंकाशा-अत्यन्ततरुणपुरुषतुल्या,
न मनुष्यवत्पुरन्ध्रिगर्भाधिवासजन्मादिक्रमेण, सर्वाङ्गेषु-शिरःप्रभृतिषु तदवयवेषु च कर्णग्रीवादिषु, भूषणधराः, अजरा-अवस्थितयौवनाः, नीरुजः-काशश्वासादिरहिताः, समाः समचतुरस्रसंस्थानाः ॥ १४७॥
तथा
AGARCARRORESEARCOACCESCRENSACT
lain Education Inter
For Privale & Personal use only
M
ainelibrary.org