________________
त्तिए, अणाभोगनिवत्तिते"। 'तत्र निरयाणां' नारकाणां स लोमाहारोऽमनोज्ञः-प्रतिकुलकर्मोदयवशादमनोज्ञतया परिणमति । सुराणां तु मनोज्ञः, शुभकर्मोदयवशतो मनोज्ञतया परिणमति, ततश्चैषां तृप्तिपूर्वः परमसन्तोषो जायते,अतश्चैत एव समये मनोभक्षिणोऽभिधीयन्ते न नारकाः ॥ १४३ ॥ अथाहारप्रस्तावान्नारकतिर्यकराणामाहारकालमानमाह
तह विगलनारगाणं, अंतमुहुत्ता स होइ उक्कोसा।
पंचिंदितिरिनराणं, साहाविय छट्टअट्ठमओ ॥ १४४ ॥ व्याख्या-तथा विकलानां द्वित्रिचतुरिन्द्रियाणां नारकाणां चाहारे गृहीते सति भूयः स आहार-आहाराभिलाष उत्कर्षतोऽन्तर्मुहूर्तादूर्ध्वमुपजायते । एकेन्द्रियाणां त्वाहाराभिलापः सन्तत इति तदन्तरं नोक्तं, तथा चार्यश्यामः "पुढविकाइआणं भंते ! केवइकालस्स आहारट्टे समुप्पजइ ? गो० अणुसमयं अविरहिए, एवं जाव वणस्सइकाइआ" इति । तथा पञ्चेन्द्रियतिरश्चां नराणां चोत्कर्षतः स्वाभाविक आहारः क्रमात् षष्ठादष्टमाच्च जायते । तिरश्चामहोरात्रद्वयातिक्रमादित्यर्थः, मनुष्याणां अहोरात्रत्रयातिक्रमादित्यर्थः । एतचोत्कृष्टमाहारान्तरं देवकुरूत्तरकुरुपु सुषमसुषमायां भरतैरावतयोश्च (त्रि) पल्योपमायुषामवसेयं, न शेषाणां। तथा स्वाभाविकग्रहणादिदं तिर्यपञ्चे
SCRCCCC
C
lain Education intamational
For Privale & Personal use only
_____www.jainelibrary.org