SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अथ यस्यामवस्थायां जीवानां य आहारस्तदाह ओआहारा सत्वे, अपजत्त पजत्त लोमआहारो। सुरनिरएगिदि विणा, सेस भवत्था सपक्खेवा ॥ १४१ ॥ व्याख्या-ओजः उत्पत्तिदेशे खशरीरयोग्यः पुद्गलसंघातस्तदाहारयन्ति, यद्वा ओजस्तैजसशरीरं तेनाहारो येषामित्योजआहाराः, सर्वे एकेन्द्रियादयः पञ्चेन्द्रियान्ता अपर्याप्ताः, अपर्याप्तत्वं च शरीरपर्याप्तिमपेक्ष्य, नाहारपर्याप्ति, तदपर्याप्तकानामनाहारकत्वात् , सर्वाभिः खयोग्यपर्याप्तिभिरपर्याप्ता ओजआहारा इत्यन्ये, तदयुक्तं, यदृद्धाः, "शरीरपर्याप्तेरारभ्य यथायोग्यमङ्गप्रत्यङ्गैर्लोमाहारतः समन्ततः पुद्गलादानमिति” । तथा शरीरपर्याप्त्या पर्याप्ताः सर्वे जीवा लोमाहाराः, तथा सुरान्नैरयिकानेकेन्द्रियांश्च विना शेषा भवस्था द्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियतिर्यनराश्च सप्रक्षेपाः, सत्यभिलापे कवलाहारोऽप्येषां भवतीत्यर्थः । सुरनारकैकेन्द्रियाणां तु नास्ति प्रक्षेपः, ते हि पर्याप्त्युत्तरकालं स्पर्शेन्द्रियेणैवाहारयन्तीति कृत्वा लोमाहारा भवन्तीत्यर्थः । तत्र देवानां मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेनाहारतया परिणमन्ति, नारकाणां त्वशुभाः, तांश्चाहार्यमाणपुद्गलान् विशुद्धावधिचक्षुर्भावादनुत्तरसुरा एव जानन्ति पश्यन्ति, न पुन रकवेयकान्तदेवाः ॥ १४१॥ lain Education For Privale & Personal use only * w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy