________________
संग्रहणी
॥ ६७ ॥
Jain Education Inte
অ
भावार्थी - दशवर्षसहस्रेभ्य ऊर्ध्वं समयादिवृद्धौ यथाक्रममाहारोच्छ्वास योर्दिवस मुहूर्त्त पृथक्त्वानि तावद्वर्धनीयानि यावत्पूर्ण सागरोपमायुषां पक्षादुच्छ्रासो वर्षसहस्रादाहार इति भावना ॥ १३९ ॥
अथ 'भावाहारो तिविहो, ओए लोमे य पक्खेवे' इत्यागमात् आहारस्त्रिविधः, स च कथं स्यादित्याह - सरिरेणोआहारो, तयाइ फासेण लोमआहारो ।
पकखेवाहारो पुण, कावलिओ होइ नायवो ॥ १४० ॥
व्याख्या - शीर्यते उत्पत्तिक्षणादूर्ध्वं प्रतिक्षणं नश्यतीति शरीरं, तेनैव केवलेन य आहार स ओजआहारः, इदमुक्तं भवति - यद्यपि शरीरमोदारिकवैक्रियाहारकतैजसकार्मणभेदात् पञ्चधा, तथापीह तैजसेन तत्सहचारिणा कार्मणेन च शरीरेण पूर्वशरीरत्यागे विग्रहेणाविग्रहेण वोत्पत्तिदेशं प्राप्तो जन्तुर्यत् प्रथम मौदारिकादिशरीरयोग्यान् | पुद्गलानाहारयति यच्च द्वितीयादिसमयेष्यौदारिकादिमिश्रेणाहारयति यावत् शरीरनिष्पत्तिः, यदुक्तम् - " जोएण कम्मएणं, आहारेइ अनंतरं जीवो । तेण परं मीसेणं, जाव सरीरस्स निष्पत्ती ॥ १ ॥" एष सर्वोऽप्योजस्तैजसशरीरं तेनाहार ओजआहारः । तथा त्वचा त्वगिन्द्रियेण स्पर्शनेन य आहारः- शरीरोपष्टम्भक पुद्गलादानं स लोमभिः - | लोमरन्त्रैराहारो लोमाहारः । यः पुनराहारः कावलिकः कवलैर्निष्पन्नो भवति, स मुखे कवलादेः प्रक्षेपात् प्रक्षेपाहारो ज्ञातव्यः ॥ १४० ॥
For Private & Personal Use Only
वृत्ति:.
॥ ६७ ॥
www.jainelibrary.org