________________
Jain Education Inte
व्याख्या- ये देवा भवनपतयो व्यन्तराश्च जघन्यं दशवर्षसहस्राण्यायुर्द्धरन्ति तेषामाहाराभिलापश्चतुर्थादित ( अर्थात् ) अहोरात्रादुत्पद्यते, सति चाहाराभिलाषे तन्मात्रोपस्थितसर्वेन्द्रियाह्लादिमनोज्ञपुद्गलेभ्यस्तृप्यन्ति । तथा | सप्तभिस्तोकैर्वक्ष्यमाणैरुच्छासः -- शरीरान्तर्गतप्राणरूपपवनोत्सर्पणं, सप्तसप्तस्तोकातिक्रमे एवोच्छ्सन्ति, शेषकाल च तदावाधया रहिताः स्तिमिता एव तिष्ठन्तीत्यर्थः ॥ १३५ ॥
अथ स्तोकस्य तत्प्रसङ्गालव मुहूर्त्तयोश्च मानमाह-
आहिवाहिविमुक्कस्त, नीसासूसास एगगो ।
पाणू सत्त इमो थोवो, सोवि सत्तगुणो लवो ॥ १३६ ॥ लवाण सत्तहत्तरीए, होइ मुहुत्तो
व्याख्या - आधिः - मनोबाधा, व्याधिः- शरीरमन्दता, ताभ्यां विमुक्तस्य, विशब्दा चिन्ताश्रमादिमात्रेणापि रहितस्य, सामर्थ्यान्मनुष्यस्यैकको निःश्वासयुक्तः उच्छ्वासः प्राणोऽभिधीयते, शोकादिभिरखास्थ्ये निःश्वासोच्छ्रासोन्यथाऽपि स्यादित्याधिव्याधिविमुक्तस्येत्युक्तं । सप्त इमे प्राणाः स्तोकः, सोऽपि स्तोकः सप्तगुणो लवः ॥ १३६ ॥ लवानां च सप्तसप्तत्या मुहूर्त्ती-घटिकाद्वयरूपो भवति । अस्मिंश्च मुहूर्त्ते आवलिकानामेका कोटी सप्तषष्टिर्लक्षाः सप्तसप्ततिः ।
For Private & Personal Use Only
৩ % %%
w.jainelibrary.org