SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ कप्पतिअपम्हलेसा, लंताइसु सुक्कलेस हुंति सुरा । व्याख्या-लिश्यते श्लिष्यते जीवः कर्मणा सहाभिरिति लेश्याः, कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभाः परिणामाः । उक्तं च-"कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥ ॥१॥" एवं चैता यद्यपि भावलेश्या एव तथाऽपीह तद्धेतवोऽवस्थिताः कृष्णादिद्रव्यरूपा द्रव्यलेश्या एव प्रतिप-3 त्तव्याः, न भावलेश्याः, तासामनवस्थितत्वात्, नापि बाह्यवर्णरूपा, बाह्यवर्णस्य देवानामुक्तत्वाद्वक्ष्यमाणत्वाच, एतच नारकलेश्याभिधानप्रस्तावे व्यक्तीकरिष्यते । एताश्च पद, कृष्णा नीला कापोता तेजः पद्मा शुक्ला चेति ।।४। तत्र भवनवासिनो बनचराश्च प्रथमाश्चतस्रो लेश्या येषां ते प्रथमचतुर्लेश्याः, कृष्णा नीला कापोता तैजसी चैषां लेश्या भवन्तीत्यर्थः । तत्रापि परमाधार्मिकाः कृष्णलेश्याः। तथा ज्योतिश्चके कल्पद्विके च-सौधर्मेशानरूपे तेजोलेश्याका देवाः ॥ १३३ ॥ तथा कल्पत्रिके सनत्कुमारमाहेन्द्रब्रह्मलोकास्ये देवाः पालेश्याः, तत ऊर्ध्व लान्तकादिप्वनुत्तरान्तेषु देवाः शुक्ललेश्या भवन्ति, सर्वापि च लेश्या यथोत्तरस्थानं विशुद्धविशुद्धतरा बोद्धव्या, भावलेश्यास्तु देवानां प्रतिनिकायं यथासम्भवं पडपि भवन्ति । तथा च तत्त्वार्थटीकायां हरिभद्रसूरिः 'भावलेश्याः पडपीप्यन्ते देवानां प्रतिनिकायमिति" ॥ in Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy