SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सग्रहणी ताततः समयादिवृद्धा यावच्चत्वारिंशत्पल्योपमस्थितय आनतदेवानां स्वस्थानस्था एव प्रवीचारणाप्रवृत्तमनोव्यापा रालम्बनं भवन्ति, ततः समयादिवृद्ध्या यावत्पञ्चाशत्पल्योपमस्थितय आरणदेवानामिति । ईशाने त्वपरिगृहीत॥ ६४ ॥ देवीनां चत्वारि विमानलक्षाणि, तेषु यासां साधिकं पल्योपमं स्थितिस्ता ईशानदेवानामेव भोग्याः, ततः साधि कपल्योपमादूर्व समयादिवृद्ध्या यावत्पञ्चदश पल्योपमानि यासां स्थितिस्ता माहेन्द्रदेवानां, तदनन्तरमेतेनोक्तक्रमेण समयाद्याधिक्यतः पल्योपमदशकानां वृद्ध्या हेतुभूतया लान्तकादिदेवानां तावद्भोग्या देव्यो यावदच्युतदेवभोग्यदेवीनां भवेत्पल्योपमानां पञ्चपञ्चाशत् , तथाहि-या ईशानदेव्यः पञ्चदशपल्योपमेभ्य ऊर्य समयादिवृद्धा यावत्पञ्चविंशतिपल्योपमस्थितयस्ता लान्तकदेवानां भोग्याः, पञ्चविंशतेः ऊर्ध्वं यावत्पञ्चत्रिंशत्पल्योपम|स्थितयः सहस्रारदेवानां भोग्याः, ततो यावत्पञ्चचत्वारिंशत्पल्योपमस्थितयः प्राणतदेवानां खस्थानस्थाश्चित्तालPम्बनं भवन्ति, ततो यावत्पञ्चपञ्चाशत्पल्योपमस्थितयोऽच्युतदेवानामिति ॥ १२९-१३०-१३१-१३२॥ अथ बालेश्याभिधानपूर्वकं देवानां लेश्याविभागमाह RECAUSERICASSESSMS किण्हा नीला काऊ, तेऊ पम्हा य सुक्क लेसा य। भवणवण पढमचउलेस जोइस कप्पङगे तेऊ ॥ १३३ ॥ wain Education intamational For Private Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy