________________
Jain Education In
हीताः सहस्रारं यावद्गच्छन्तीति" । तथा भगवानार्यश्यामोऽपि प्रज्ञापनायामाह - " तत्थ णं जे ते मणपरिआरगा | देवा तेसिं इच्छा मणे समुप्पज्जइ - इच्छामो णं अच्छराहिं सद्धिं मणपरिआरणं करितए, तओ णं तेहिं एवं | मणसि कए समाणे खिप्पामेव ताओ अच्छराओ तत्थ गयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओ २ चिट्ठति, तओ णं ते देवरा ताहिं अच्छराहिं सद्धिं मणपरिआरणं करेंति" इत्यादि । तत्र प्रवीचारणार्थ - | मध्यानतादौ देवीनां गत्यागती न स्तः 'आरणयअच्चुआओ, गमणागमणं तु देवदेवीण' मित्यादिपूर्वसंग्रहणीगतप्रक्षेपगाथायास्तु संवादं न पश्यामः । तथा अच्युतात्परतः सुराणामपि, आस्तां देवीनां गमागमौ न स्तः, तत्राधस्तनानामूर्ध्वं शक्त्यभावादुपरितनानां त्विहागमने प्रयोजनाभावात् । ग्रैवेयकानुत्तरसुरा हि जिनजन्ममहिमादिष्वपि नात्रागच्छन्ति, किन्तु स्थानस्था एवं भक्तिमातन्वते । संशयप्रभे चावधिज्ञानतो भगवत्प्रयुक्तानि मनोद्रव्याणि साक्षादवेत्य ततस्तदाकारान्यथानुपपत्त्या जिज्ञासितमर्थ निश्चिन्वन्ति, न चान्यत् प्रयोजनं, तन्न तेपामिहागमः ॥ १२७ ॥ अथ वैमानिकेषु किल्विषिकाणामाभियोग्यानां च देवानां स्थित्यादिकमाह
तिपलिअ तिसार तेरस - सारा कप्पदुग तइअ लंतअहो । किञ्चिसि न हतुवरिं, अच्चुअपरओभिओगाई ॥ १२८ ॥
For Private & Personal Use Only
www.jainelibrary.org