SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ गन्भयनरतिरिअ छहा, सुरा समा हुंडया सेसा ॥ १२२ ॥ व्याख्या-संतिष्ठन्ते प्राणिनोऽनेनाकारविशेषेणेति संस्थानं, तत्षोढा समचतुरश्रं, न्यग्रोधपरिमण्डलं, सादि, वामनं, कुब्ज, हुण्डं चेति, एतानि च पडषि संस्थानानि भवन्ति जीवानाम् , अजीवानां तु रूपिणां 'परिमंडले य वेट्टे, तसे चउरंसें आयए चेव'त्ति पञ्चधा। तत्र प्रथमं समचतुरनं संस्थानं सर्वावयवेषु लक्षणोपेतं, तथाहिसमा-लक्षणोपेताश्चतस्रोऽश्रयः चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत् समचतुरश्रं संस्थानं, समासान्तोऽत्,18 अत्राशू व्याप्ती इत्यस्य धातोरश्रिशब्दस्तालव्यशकारः कोणवाची । यदा त्वसु क्षेपणे इत्यस्य धातोरस्रशब्दो दन्त्यसकारोऽकारान्तः कोणवाची च, तदा समाश्चत्वारोऽस्रा यस्य तत्समचतुरस्रमिति १। तथा न्यग्रोध उपरि सम्पूोऽधस्तु हीनस्तथा यन्नाभेरुपरि लक्षणोपेततया संपूर्णमधस्तु न तथा तत् न्यग्रोधवत्परिमण्डलं यस्येति न्यग्रोधपरिमण्डलं २ । आदिः इहोत्सेधाख्यो नाभेरधस्तनो भागः, सह आदिना वर्तत इति सादि । सादित्वं च सर्वेषामविशिष्टमतो विशेपणान्यथानुपपत्तेरादिरिह यथोक्तलक्षणो गृह्यते, तेन यन्नाभेरधो लक्षणेनोपपन्नमूर्ध्वं तु हीनं तत्सादीति ३ । यत्र पृष्ठमुदरमुरश्च वर्जयित्वा शिरोग्रीवापाणिपादे यथोक्तलक्षणं भवति, तद्वामनं ॥१॥ यत्र तु शिरोग्रीवापाणिपादं विहाय शेषावयवेपु(स) लक्षणं भवति तत् कुन्ज॥५॥ केचित्त वामनकुब्जयोर्व्यत्ययेन लक्षणमाहुः । सर्वाव Jan Education For Private Personal use only w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy