________________
संग्रहणी
॥ ५८ ॥
यद्योगात् संहननानि स्युरिति दर्शयति, 'रिसहो पट्टो य' इत्यादि । ऋषभः पुनरस्थिद्वयस्य वेष्टकः पट्टः, वज्रमिय वज्रं कीलिका, नाराचं उभयतो मर्कटबन्धः, ततो द्वयोरस्भोरुभयतो मर्कटबन्धेन वद्धयोः पट्टाकृतिना तृतीयेनास्थना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाकारं वज्राख्यमस्थि यत्र भवति तत् वज्रऋषभनाराचं, यत्पुनः | कीलिकारहितं तदृषभनाराचं, पट्टरहितं वज्रनाराचमित्यन्ये, यत्रास्थ्नोर्मर्कटबन्ध एव केवलस्तन्नाराचं, यत्रैकपार्श्वे मर्कटबन्धोऽपरपार्थे च कीलिका तदर्द्धनाराचं, यत्रास्थीनि कीलिकामात्रवद्धानि तत्कीलिकाख्यं यत्र त्वस्थीनि परस्परं पर्यन्तसंश्पर्शनरूपसेवामात्रेण व्याप्तानि नित्यं स्नेहाभ्यङ्गादिपरिशीलनमपेक्षन्ते तत्सेवया ऋतं व्याप्तं सेवां वा प्राप्तं सेवा, क्वचित् 'छेयमित्यपि' तत्र छेदस्पृष्ठं छेदपृष्ठमिति वार्थः ॥ ११६ ॥ ११७ ॥ अथैतान्येव संहननानि जीवेषु विभागेनाह
छ गब्भतिरिनराणं, समुच्छिपणिदिविगलछेवहं । सुरनेरइआ एगिंदिआ य सवे असंघयणा ॥ ११८ ॥
व्याख्या—– गर्भजतिर्यङ्गराणां पट्-वज्रर्षभनाराचादीनि संहननानि भवन्ति । संमूच्छिमपञ्चेन्द्रियतिर्यङ्गराणां | 'विगलत्ति' द्वित्रिचतुरिन्द्रियाणां च सेवार्त्तमेव । तथा च जीवाभिगमः - " से किं तं संमुच्छिमपंचेंदिअतिरिक्खजो -
Jain Education International
For Private & Personal Use Only
वृत्तिः.
॥ ५८ ॥
www.jainelibrary.org