________________
पमपृथक्त्वं श्रावकस्य पल्योपममिति । तथा चतुर्द्दशपूर्वधरस्य लान्तके जघन्यत उपपातः, तापसादीनां तु व्यन्त - रेषु प्रज्ञापनायान्तु 'ताबसाईणं जहन्नेणं भवणवईसु' इत्युक्तं । एष चोक्तरूपः सर्वोऽप्युपपातविधिर्निजनिजक्रिया| स्थितानां निजनिजागमोक्तानुष्ठानरतानां न खाचारहीनानामिति ॥ ११४ ॥ ११५ ॥ अयं च प्रागुक्तः सर्वोऽपि देवेषूपपातः संहननविशेषान्नाविशेषेण सर्वेषामिति संहननान्याह -
Jain Education International
वज्ज रिसहनारायं, पढमं बीअं च रिसहनाराअं । नारायमद्धनाराय, कीलिआ तहय छेवहं ॥ ११६ ॥ एए स्संघयणा, रिसहो पट्टो य कीलिआ वजं । उभओ मक्कडवंधो, नाराओ होइ विन्नेओ ॥ ११७ ॥
व्याख्या - संहन्यन्ते संहतिविशेषं प्राप्यन्ते शरीरास्थ्यवयवा यैस्तानि संहननानि, दृढदृढतरादयः शरीरबन्धा, एतानि च षड् भवन्ति । तत्र प्रथमं वज्रऋषभनाराचं, वज्रं विना द्वितीयं ऋषभनाराचं, केचित्तु द्वितीयं वज्रनाराचमाहुः, वज्रं ऋषभं च विना तृतीयं नाराचं, चतुर्थमर्धनाराचं, पञ्चमं कीलिका, पष्ठं सेवा । अथ के वज्रादयो ?
For Private & Personal Use Only
www.jainelibrary.org