________________
यत ईशानादूर्व सनत्कुमारादिषु जघन्यतोऽपि सागरोपमद्वयादिकैव स्थितिः, असंख्यातवर्षायुषां तियेङ्गराणा पुनरुत्कर्षतोऽपि त्रीण्येव पल्योपमानि, अत एव च सूत्रकृता ईशानान्तेष्वित्युक्तं ॥ १०७ ॥ तथा
___ जंति समुच्छिमतिरिआ, भवणवणेसुं न जोइमाईसुं।
जं तेसिं उववाओ, पलिआसंखंसआऊसुं ॥ १०८ ॥ व्याख्या-संमूछिमतियञ्चो देवेषूत्पद्यमानी भवनपतिव्यन्तरेष्वेव यान्ति-गच्छन्ति, न ज्योतिष्कादिषु, यस्मातेषां सम्मूर्छिमतिरश्चां देवेषु पल्योपमासंख्यातभागमात्रस्थितिष्वेवोपपातो, नाधिकस्थितिषु ॥ १०८॥ अध्यवसायविशेषाद्गतितारतम्यतेत्युक्तमतस्तदेवाह
बालतवे पडिबद्धा, उक्कडरोसा तवेण गारविआ।
वेरेण य पडिबद्धा, मरिउं असुरेसु जायंति ॥ १०९ ॥ व्याख्या-अर्हद्वचनविकलास्तत्त्वतो ज्ञानशून्यत्वाद्वाला इव वालास्तेषां तपः-पञ्चाग्न्यादि तच तत्त्वतः सत्त्वो&ीपघातहेतुत्वान्न तपः, तथा च महाभारते शान्तिपर्वणि कृष्णद्वीपायनोऽप्याह-"चतुणी बलतां मध्ये, यो नर
wain Education intamational
For Privale & Personal use only
www.jainelibrary.org