________________
ACCH OROSCANCER
व्याख्या-भवनपत्यादिषु प्रत्येकमेकस्मिन् समये जघन्यत एको द्वौ त्रयो वा भवन्ति उत्पद्यन्ते, च्यवन्ते वा, उत्कर्षतः संख्याता असंख्याता वा, केवलं सहस्रारादूर्व सर्वत्र संख्याता एव, यतस्तस्मादूर्ध्व मनुष्या एव गच्छन्ति, न तिर्यञ्चः, आनतादिच्युताश्च मनुष्येष्वेवागच्छन्ति न तिर्यक्षु, मनुष्याश्च संख्याता एवेति ॥१०५॥ उक्ते उपपातोद्वर्तनासंख्याद्वारे, अधुना गतिद्वारमाह
नरपंचिंदिअतिरिआणुप्पत्ती सुरभवे पजत्ताणं ।
अज्झवसायविसेसा, तेसिं गइतारतम्मं तु ॥ १०६ ॥ व्याख्या-नराणां पञ्चेन्द्रियतिरश्चां च उभयेषामपि पर्याप्तानां सुरभवे-देवलोके उत्पत्तिर्भवति, न शेषाणां देवनारकैकेन्द्रियविकलेन्द्रियापर्याप्तपञ्चेन्द्रियतियङराणां । देवभवोत्पत्तावेव हेतुमाह-'अध्यवसायविशेषादिति' अध्यवसायस्त्रिविधः-अशुद्धः शुद्धोऽत्यन्तशुद्धश्च, तत्राशुद्धस्य नरकगत्यादिहेतुत्वादत्यन्तशुद्धस्य तु मुक्तिप्रापकत्वादत्र देवायुर्वन्धनयोग्यः प्रशस्तमनोव्यापाररूपः शुद्धोऽध्यवसायो ग्राह्यः, एतेन शुभाशुभगत्यवाप्तौ मनोव्यापारस्य प्राधान्यमाह-उक्तं च-"चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुपितं दोपैस्तस्य शिष्टा विपत्तयः॥१॥"। अध्यवसायविशेषादिति च घण्टालालान्यायेनाग्रेऽपि सम्बध्यते । ततोऽयमों-गतितारतम्यं कोऽपि कुत्रापि भवनप
Jan Education international
For Private & Personal Use Only