________________
संग्रहणी
॥ ५४ ॥
तथा चतुर्षु विजयवैजयन्तजयन्तापराजितेष्वद्धापल्योपमस्यासंख्येयो भागः, सर्वार्थसिद्धे तु पल्योपमस्य संख्येयो भागः । तथा च प्रज्ञापना - " विजयवैजयंतजयंतापराजिअदेवाणं भन्ते ! केवईअं कालं विरहिआ उववाएणं पन्नत्ता ? गोअमा ! जहन्नेणं एगं समयं, उक्कोसेणं असंखेजं कालं, सङ्घट्टसिद्धदेवाणं पुच्छा, गोअमा ! जहन्त्रेणं एगं समयं, उक्कोसेणं पलिओ मस्स संख्येज्जइभागं" इति । सूत्रे दिन दिवसमासवर्षशतसहस्रशब्दानां पुंनपुंसकत्वात् पुंस्त्वेन | लक्षशब्दस्य च मानवृत्तेः स्त्रीनपुंसकत्वात् स्त्रीत्वेन निर्देशः ॥ १०२-१०३-१०४ ॥ उक्त उत्कृष्ट उपपातविरह कालः, साम्प्रतं जघन्यं दर्शयन् च्यवनविरहकालमप्यतिदेशतो गाथापूर्वार्द्धनाह -
सवेसिंपि जहन्नो, समओ एमेव चवणविरहोऽवि ।
व्याख्या - सर्वेषामपि भवनवास्यादीनामनुत्तरान्तानां सुराणां जघन्य उपपातविरहकाल एकसमयः तथा व्यवनविरहकालोऽपि भवनवास्यादीनां सर्वेषामप्युत्कृष्टो जघन्यश्च एवमेव-उपपातविरह कालप्रकारेणैव, नवरं उपपातस्थाने च्यवनाभिलापः कार्यः ॥ उक्ते सुराणामुपपातच्यवनविरहद्वारे, सम्प्रत्युपपातमुद्वर्त्तनं चाश्रित्य संख्याद्वार - द्वयं गाथापश्चिमार्द्धनाह -
इगदुतिसंखमसंखा, इगसमए हुंति अ चवंति ॥ १०५ ॥
Jain Education International
For Private & Personal Use Only
वृत्ति:.
॥ ५४ ॥
www.jainelibrary.org