________________
यत इत्युत्तरवैक्रिया तनुर्योजनानि लक्षं-योजनलक्षप्रमाणा भवतीत्यर्थः, ग्रैवेयकेष्वनुत्तरेषु च देवानामुत्तरवै क्रिया तनुर्नास्ति, सत्यामपि शक्तौ प्रयोजनाभावतस्तदकरणात् ॥ ९९ ॥ अथ स्वाभाविकीमुत्तरवैक्रियां च जघन्या
| मवगाहनामाह -
साहाविअवेविअ - तणू जहन्ना कमेण पारंभे । अंगुल असंभागो, अंगुलसंखेज्जभागो य ॥ १०० ॥
व्याख्या – सर्वेषामपि भवनपत्यादीनां स्वाभाविकीं यथासंभवमुत्तरवैक्रिया च तनुर्जघन्या क्रमेण यथासंख्यमङ्गुला संख्यात भागप्रमाणा, अङ्गुलसंख्यातभागप्रमाणा च, द्विविधाऽपि चेयं जघन्या तनुः प्रारम्भसमय एव भवतीति | ॥ १०० ॥ अथ सुराणामवगाहनाद्वारं निगमयति
सुरेस ओगाहणा दारं समत्तं ।
इदानीं सुराणामेवोपपातच्यवनविरहकालरूपद्वारद्वयाभिधित्सया सम्बन्धमाह - sive विरहकालो उववाओवट्टणाणं भण्णइ
Jain Education International
For Private & Personal Use Only
**% *%*%%%%%%
www.jainelibrary.org