SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥ ५१ ॥ हत्थेक्कारसभागा, अयरे अयरे समहिअम्मि ॥ ९७ ॥ चय पुवसरीराओ, कमेण एगुत्तराइ बुड्डीए । एवं ठिईविसेसा, सणकुमाराइ तणुमाणं ॥ ९८ ॥ व्याख्या - कल्पद्विके-सौधर्मेशानरूपे, तत उपरि द्वयोर्द्वयोर्द्वयोः चतुष्के नवके पञ्चके च क्रमेण ज्येष्ठा स्थितिद्वे | सप्त चतुर्दश अष्टादश द्वाविंशतिः एकत्रिंशत् त्रयस्त्रिंशत् अतराणि - सागरोपमाणि । अत्रेशानमाहेन्द्रयोः साधिकत्वं | देहमानेऽनुपयोगित्त्वान्न विवक्षितं, इयं च स्थितिः प्रागुक्तापि करणानुरोधादित्थमत्रोपदर्शिता, ततस्तासां सौधर्म - द्विकादिस्थान सप्तकगतानां सागरोपमद्विकादीनामुत्कृष्टानां स्थितीनां विवरो-विवरणं विश्लेषो, वृहत्याः स्थितेः सकाशादल्पायां पातितायां यदवशिष्यत इत्यर्थः, तस्मिन्नेकोने - एकरूपहीने एकादशभ्यो हस्तगतेभ्यो भागेभ्यः पातिते ये शेषा हस्तैकादशभागास्तानेकस्मिन्नेकस्मिन् सागरोपमे समधिके सति पूर्वपूर्वशरीरप्रमाणात्क्रमेण एकोत्तरया वृद्ध्या एकैकेन एकादशभागेन परिवृद्धान् त्यज, सूत्रे तु प्रथमा द्वितीयार्थे प्राकृतत्वात् तत एवमुक्तप्रकारेण | स्थितिविशेषात् - सागरोपमवृद्धिरूपात् सनत्कुमारादिषु देवानां शरीरप्रमाणं भवति, तथाहि — सौधर्मेशानयोरु|त्कृष्टा स्थितिर्दे अतरे, सनत्कुमार माहेन्द्रयोः सप्त, तेभ्यो द्वे अपनीयेते, स्थिताः पञ्च, ते एकोनाः क्रियन्ते, जाताश्च Jain Education International For Private & Personal Use Only वृत्तिः. ॥ ५१ ॥ www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy