________________
पढमपयरंमि पढमे, कप्पे उडुनाम इंदयविमाणं । पणयाललक्खजोअण, लक्खं सब्रुवरि सङ्घट्टं ॥ ९३ ॥
सुगम । इह च प्रस्तावे केचिन्मनुष्यक्षेत्रादूर्ध्व कियति सौधर्मादय इत्यूर्ध्वलोकविभागप्रदर्शनाय पूर्वसंग्रहण्यां प्रक्षेपगाथां पठन्ति “सोहम्मंमि दिवड्डा, अड्डाइज्जा य रज्जु माहिंदे । पंचेव सहस्सारे, छ अच्चुए सत्त लोगंते ॥१॥" एषा च मतान्तरगाथेति ज्ञापनार्थ चतुर्दशरज्वात्मकस्यापि लोकस्य विभागमाह -
Jain Education International
अहभागा सग पुढविसु, रज्जू एकेक तहय सोहम्मे । महिंद लन्त सहसारचुअगेविज लोगंते ॥ ९४ ॥
व्याख्या - लोकस्य सर्वाधस्तनभागादारभ्य सप्तसु पृथ्वीषु तथा सौधर्मादिषु च सप्तसु स्थानेषु क्रमादेकैका रज्जुर्भ| वति । तथाहि — अयमूर्ध्वाधश्चतुर्दशरज्वात्मको लोकश्चतुर्दशभागीक्रियते, तत्र सर्वाधस्तनालोकान्तादारभ्य सर्वमवकाशान्तरं तमस्तमप्रभाया उपरितलं च यावदेतावान् रज्जुप्रमाणः प्रथमो भागः, तत ऊर्ध्वं पुनरवकाशान्तरं तमः -- प्रभाया उपरितलं च यावत् द्वितीयः, एवं यावत् शर्कराप्रभाया उपरितलादारभ्य रत्नप्रभाया उपरितलं च यावत्
For Private & Personal Use Only
%%%%
www.jainelibrary.org