________________
संग्रहणी॥४८॥
विमाणं वीईवएजा, अत्थेगई नो वीईवएज्जा इत्यादि" । अथवा प्रकारान्तरेण सौधर्मादिष्वनुत्तरान्तेषु केषाश्चि-13 द्विमानानां विष्कम्भादिपरिज्ञानाय त्रिगुणनादिके प्रागुक्तखरूपे क्रमचतुष्के प्रत्येकमेकैकस्मिन् चतस्रोऽपि चण्डादिगतीर्योजयेत् , ततस्त्रिगुणनागतपरिमाणेन क्रमेण सौधर्मेशानसनत्कुमारमाहेन्द्रेषु चतुर्पु कल्पेषु केषाञ्चि-|| द्विमानानां चण्डया गत्या विष्कम्भ, चपलया आयाम, जवनयाऽभ्यन्तरपरिधिं, वेगया बाह्यपरिधि कश्चिद्देवो मिनुयात् । तथा पञ्चगुणनागतप्रमाणेन चण्डादिगतिभेदभिन्नेन द्वितीयेन क्रमेण ब्रह्मलोकादिष्वष्टसु कल्पेषु केषाञ्चिद्विमानानां विष्कम्भादि मिनुयात् । एवं नवसु ग्रैवेयकेषु सप्तगुणनागतेन तृतीयक्रमेण, विजयादिषु चतुर्यु अनुत्तरविमानेषु नवगुणनागतेन चतुर्थक्रमेण विष्कम्भादि मिनुयात् , न च षड्भिरपि मासैः पारं प्राप्नुयादिति । ननु यद्येतावन्मात्रेणापि क्रमेण चण्डादिभिरपि गतिभिः पडिरपि मासैः सुराः केपाश्चिद्विमानानां पारं न प्राप्नुवन्ति, तत्कथमिह जिनादीनां गर्भजन्मत्रतज्ञानमोक्षकल्याणकादिषु महिमानिमित्तं तत्रैव दिने तस्मिन्नेव समये समागच्छन्ति, १५ सौधर्मादिकल्पेभ्यो मनुष्यक्षेत्रस्यात्यन्तदूरत्वात् , अत्रोच्यते, पल्योपमादिप्रमाणवत् कल्पितमेवेदं क्रमगतिप्रमाणं, देवास्तु तथाभवखाभाव्यादचिन्त्यसामर्थ्यतोऽत्यन्तशीघ्रा एवेति ॥ ८४-९२ ॥ इत्थं सामान्येन सौधर्मादिषु विमानानां प्रमाणमभिधाय क्वचिद्विशेषतोऽप्याह
SACREACHER-SCRECORDCNEOSEX
॥४८॥
wain Education intamational
For Privale & Personal use only
www.jainelibrary.org