________________
संग्रहणी-
वृत्तिः
॥४४॥
SEARCH
हस्राः, गद्दतोयतुषितयोः सप्त देवाः सप्त च देवसहस्राः, शेषेषु त्वव्यावाधाग्नेयरिष्टेषु नव देवा नव च देवशतानीति । परिवारसंग्रहगाथा चात्र-पढमजुअलंमि सत्त उ, सयाणि बीअंमि चउद्दस सहस्सा । तइए सत्त सहस्सा, नव चेव सयाणि सेसेसु ॥१॥ स्थितिश्च लोकान्तिकविमानेषु देवानामष्टौ सागरोपमाणि, तथैतेभ्यो विमानेभ्योऽसंख्यातयोजनसहस्रैरलोक इत्यलं प्रसङ्गेन ॥ ११॥ साम्प्रतं दशानामपि वैमानिकेन्द्राणां सामानिकानात्मरक्षकांचाह
चुलसी असीइ बावत्तरि सत्तरि सहि पन्न चत्ताला।
तुल्लसुर तीस वीसा, दस सहसा आयरक्ख चउगुणिआ ॥ ७८ ॥ व्याख्या-पूर्वार्द्धसमोत्तरार्द्धयं गाथा गीतिसंज्ञा, 'तुल्लसुर'त्ति सामानिका देवाः सौधर्मेन्द्रस्य चतुरशीतिसहस्राः /८४०००, एवं ईशानेन्द्रस्याशीतिः ८००००, सनत्कुमारेन्द्रस्य द्विसप्ततिः ७२०००, माहेन्द्रस्य सप्ततिः ७००००, ब्रह्मलोकेन्द्रस्य पष्टिः ६००००, लान्तकेन्द्रस्य पञ्चाशत् ५००००, महाशुक्रेन्द्रस्य चत्वारिंशत् ४००००, सहस्रारेन्द्रस्य त्रिंशत् ३००००, आनतप्राणतेन्द्रस्य विंशतिः २००००, आरणाच्युतेन्द्रस्य दश १००००। सर्वेषामपि चात्मरक्षाश्चतर्गणिकाः (ताः)-सामानिकेभ्यश्चतुर्गुणा इत्यर्थः । यथा सौधर्मेन्द्रस्य तिस्रो लक्षाः पत्रिंशत्सहस्राः ३३६००० इत्यादि । अपरश्चात्र विशेषो द्वादशखपि सौधादिष्यच्युतान्तेषु कल्पेषु देवाः क्रमेण मृग-महिष-वराह-सिंह-छगल
॥४४॥
lain Education Interational
For Private Personal Use Only
www.jainelibrary.org