________________
Jain Education Inter
चासा भगवत्यामेवमुपवर्ण्यते, यथाह – यो देवो महर्द्धिक इत्यादि प्राग्वत्, यावदर्द्धमासेन "अत्थेगइयं कण्हराई वीईवएज्जा, अत्थेगइयं कण्हराई नो बीईवइज्जा" इति एतासां चाष्टानां कृष्णराजीनामष्ट स्ववकाशान्तरेषु यथा| क्रममर्चिरर्चिर्मालिवैरोचनप्रभर चन्द्रभसूर्या शुक्रा भैंसुप्रतिष्ठाभनामान्यष्टौ लोकान्तिकविमानानि भवन्ति । तत्र | लोकस्य - ब्रह्मलोकस्यान्ते -- समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि च लोकान्तिका वा देवास्तेषां विमानानि लोकान्तिकविमानानि तद्यथा - अभ्यन्तरोत्तरपूर्वयोरन्तरेऽर्चिः, एवं पूर्वयोर्द्वितीयं, अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं, दक्षिणयोश्चतुर्थ, अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं, पश्चिमयोः पष्ठं, अभ्यन्तरपश्चिमोत्तरयोः सप्तमं, उत्तरयोरष्टमं, सर्वकृष्णराजीमध्यभागे तु नवमं रिष्टविमानम्, एतच्च विमानप्रस्तावादभिधीयते । एषु च विमानेषु यथाक्रमं सारस्वतादयो देवा वसन्ति, यथा-सारस्सय माइच्चा, वण्ही वरुणा य गद्दतोया य । तुसिआ अचावाहा, अग्गिया चेव रिट्ठाय ॥ १ ॥ संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्टाश्चेति तात्स्थ्यात्तव्यपदेश इति रिष्टवि मानाधारा रिष्टाः, एते च सारखतादयो लोकान्तिकसुराः प्रव्रज्यासमयात् संवत्सरेणाद्यगेव स्वयंसम्बुद्धमपि | भगवन्तं जिनवरेन्द्रं कल्प इति कृत्वा 'भगवन् ! सर्वजगज्जीवहितं तीर्थ प्रवर्तयखेति' बोधयन्ति । तथा चोक्तम्"एए देवनिकाया, भगवं वोहिंति जिणवरिंदं तु । सवजगज्जीवहिअं, भगवं । तित्थं पवतेहि ॥ १ ॥ " इह च सारख तादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवारः, एवं वह्निवरुणयोश्चतुर्दश देवाश्चतुर्दश च देवस
For Private & Personal Use Only
%%%
www.jainelibrary.org