________________
--14
संग्रहणी-
॥४३॥
-1-1-1-64
एकविंशत्यधिकानि यावत् समभित्त्याकारतया गत्वा तदनन्तरं तिर्यक प्रविस्तरन् सौधर्मशानसनत्कुमारमाहेन्द्ररूपान् चतुरोऽपि कल्पानावृत्त्य ऊर्ध्वं ब्रह्मलोककल्पे तृतीये रिष्टविमानप्रस्तटे निष्ठितः, अयं चाधः समभित्ति-हा रूपतया वलयाकारत्वात् शरावबुनसंस्थानः, ऊवं कुक्कुटपञ्जरकसंस्थितः, तथाऽयमादित आरभ्य ऊर्च संख्येययोजनानि यावद्विस्तारतः संख्यातानि योजनानि, ततः परमसंख्यातानि, परिक्षेपेण तु सर्वत्राप्यसंख्यातान्येव, अधस्तमस्कायस्य संख्यातविस्तारत्वेऽप्यसंख्याततमद्वीपपरिक्षेपस्यासंख्यातत्वात् । स्थापना । अस्य च महत्त्वमेवमागमज्ञाः प्रज्ञापयन्ति, यथा-यो देवो महर्द्धिको यया गत्या तिसृभिश्चप्पुटिकाभिरेकविंशतिवारान् सकलं जम्बूद्वीपमनुपरिवृत्त्यागच्छेत् , स एव देवस्तयैव गत्या पडिरपि मासैः संख्यातयोजनविस्तारमेव तमस्कायं व्यतिब्रजेन्नेतरमिति । रिष्टप्रस्तटे च रिष्टविमानस्य चतुर्दिशं सचित्ताचित्तपृथिवीपरिणामरूपे द्वे द्वे कृष्णराज्यौ स्तः ।। तथाहि-पूर्वस्यां दक्षिणोत्तरायते तिर्यग विस्तीर्णे, एवं दक्षिणस्यां पूर्वापरायते, अपरस्यां दक्षिणोत्तरायते, उत्तरस्यांत | पूर्वापरायते । तत्र पौरस्त्याऽभ्यन्तरा कृष्णराजी दक्षिणबाह्यां कृष्णराजी स्पृशति, एवं दक्षिणाभ्यन्तरा पश्चिमबाह्यां, पश्चिमाभ्यन्तरा उत्तरबाह्यां, उत्तराभ्यन्तरा पूर्ववाद्यामिति, एवं चाक्षपाटकसंस्थिता अष्टावप्येता भवन्ति ।
॥ ४३। स्थापना । कोणविभागस्त्वेवम्-पुवावरा छलंसा, तंसा पुण दाहिणोत्तरा बज्झा । अन्भिन्तरचउरंसा, सबावि अ कण्हराईओ॥१॥ एताश्च विष्कम्भतः संख्यातान्यायामतः परिक्षेपतश्चासंख्यातानि योजनसहस्राणि । महत्त्वं ।
2-02
lain Education International
For Privale & Personal use only
www.jainelibrary.org