SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कास्की व्याख्या-रे जीव ! अयं श्रीजिनधर्मों 'बन्धुरिव' भ्रातेव, यथा भ्राता आपदि साहाय्यं ददाति तथाऽयं धर्मोऽपि भवापदि त्राता, 'च' पुनरयं धर्मः 'सुमित्रं सुसखा, यथा सुमित्रं हितार्यसम्पादनात् सुखयति तथाऽयं धर्मोऽपि, तथाऽयं धर्मश्च 'परमः' प्रकृष्टो गुरुः, यथा गुरुरसन्मार्गान्निवर्तयति तथाऽयं धर्मोऽपि नरकतिर्यमार्गान्निवारयिता, तथा 'मोक्षमार्गप्रवृत्तानां' शिवपथप्रचलितानां जीवानामयं धर्मः परमः 'स्यन्दनो' रथो, यथा स्यन्दनेन मार्गे सुखेन गम्यते | तथा धर्मेणाऽपि मोक्षमार्गे प्रवृत्ताः पुरुषाः सुखेन शिवपुरी गच्छन्ति ॥१०१॥ चउगइऽणंतदुहानल-पलित्तभवकाणणे महाभीमे । सेवसु रे जीव ! तुम, जिणवयणं अमियकुंडसमं ॥१०२॥ __व्याख्या-रे जीव! त्वं 'महाभीमे' महारौद्रे, चतसृणां गतीनां नरकादिरूपाणामनन्तानि यानि दुःखानि तान्येव 'अनलो' वह्निस्तेन 'प्रदीप्तं' ज्वलितं यद्भवकाननं तस्मिन् 'जिनवचनं श्रीसिद्धान्तममृतकुण्डसमं 'सेवस्व' भजस्व, सिद्धान्तोक्तमनुष्ठानं कुरुष्वेत्यर्थः ॥ १०२॥ विसमे भवमरुदेसे, अणंतदुहगिम्हतावसंतत्ते । जिणधम्मकप्परुक्खं, सरसु तुम जीव ! सिवसुहदं ॥१०३ ॥ __ व्याख्या-हे जीव ! त्वं 'विषमे' दुस्सञ्चारे, तथाऽनन्तदुःखान्येव ग्रीष्मतापस्तेन 'सन्तप्ते' उपद्रुते, एवंविधे भव एव-13 संसार एव 'मरुदेशो' मरुस्थलं, तस्मिन् भवमरुदेशे, जिनधर्म एव कल्पवृक्षस्तं 'स्मर' विचिन्तय, रक्षकत्वेनेति, किम्भूतं जिनधर्मकल्पवृक्षं ?-'शिवसुखानि' मोक्षसौख्यानि ददातीति शिवसुखदस्तम् ॥ १०३ ॥ "न पूजनादिति”[५-४-६९, पा० ] स्वतिभ्यां न टच । RESTASISESEISOSSESSO Jan Education a l For Private Persorsaluse Only ainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy