________________
S
A
LACCOCALCARDS
'घोरं' रौद्रं 'दुःखं' असातं 'अनुभवन्ति' प्रामुवन्ति, किम्भूता जीवाः?, जन्मजरामरणान्येव 'तीक्ष्णा' निशिता, ये 'कुन्ताः' प्रासास्तै विध्यमाना' भेद्यमाना, अत एव दुःखानुभवनं जीवानाम् ॥ ८८॥ तह वि खणं पि कया वि हु, अन्नाणभुअंगडंकिआ जीवा । संसारचारगाओ, न य उविजंति मूढमणा ॥ ८९॥ ___ व्याख्या-यद्यप्येवं दुःखमनुभवन्ति तथाऽपि, 'हु'निश्चये, "कदापि' कस्मिन्नपि प्रस्तावे, अमी 'मूढमनसो' मूर्खा जीवा, अज्ञानमेव भुजङ्गस्तेन 'दष्टा' भक्षिता, अज्ञानान्धा इत्यर्थः, 'क्षणमपि' स्तोककालमपि, संसार एव 'चारको' गुप्तिगृहं, तस्मात् 'न चोद्विजन्ते' नोद्विग्ना भवन्ति ॥ ८९॥
कीलसि कियंत वेलं, सरीरवावीइ जत्थ पइसमयं । कालरहघडीहिं, सोसिज्जइ जीवियंऽभोहं ॥९॥ ___ व्याख्या-रे जीव ! त्वं 'शरीरवाप्यां' देहरूपदीर्घिकायां कियती 'वेला' समयं यावत् 'क्रीडिष्यसि' रंस्यसे ?, कियन्तं कालं स्थास्यसीत्यर्थः, यत्र शरीरवाप्यां 'प्रतिसमयं' प्रतिक्षणं कालारघट्टघटीभिजीविताम्भ ओघों' जीवितजलप्रवाहः शोष्यते, यथा वापी अरहट्टघटीभिः प्रतिसमयं निर्वास्यमानजलेन शोषमासादयति, तथेदं शरीरमपि प्रतिसमयं कालातिक्रमणेन जीवितजलशोषणाद्रिक्तं जायत इत्यर्थः॥ ९०॥ रे जीव ! बुज्झ मा मु-ज्झ मा पमायं करेसि रे पाव!। किं परलोए गुरुदु-क्खभायणं होहिसि? अयाण ! ९१ व्याख्या-रे जीव !' आत्मन् ! त्वं 'बुध्यस्व' धर्मे बोधं कुरु, 'मा मुह्य' मा मोहमामुहि, 'रे पाप !' दुष्टात्मन् !, अदृ
SASAASAASAASAASAASAASAASAASU*
Jan Educator
anal
For Private &Personal use Only
M
iainelibrary.org