________________
वैराग्य
शतकम्।
गुणविनयीयाव्याख्या।
॥२५॥
CALCUMAUNLODSEOCESS
संख्यानि कर्माणि ज्ञानावरणीयादीनि, तान्येव 'प्रलयानिलः' प्रलयपवनस्तेन 'प्रेरितो' दोलितो 'हिण्डमानः' परिभ्रमन सन्नरकेष्वपि 'अनन्तशो' अनन्तवारान् , प्रक्रमाद्दुःखं प्राप्तोऽसि ।। ८४ ॥
सत्तसु नरयमहीसुं, वज्जानलदाहसीअविअणासुं । वसिओ अणंतखुत्तो, विलवंतो करुणसद्देहिं ॥ ८५॥ व्याख्या-रे जीव ! त्वं 'सप्तसु' सप्तसंख्यासु नरकपृथ्वीषु रत्नप्रभादिषु 'वज्रानलस्य' वज्राग्ने घिस्य' उष्णस्य 'शीतस्य' च, हिमस्य, या 'वेदनाः' पीडास्तासु 'करुणशब्दैः' दयाजनकरुतै विलपन्' विलापं कुर्वन् सन् 'अनन्तकृत्वो' अनन्तवारान् 'उषितः' स्थितः, नरकेषूष्णवेदनायाः शीतवेदनायाश्च स्वरूपमेवमागमज्ञाः प्रज्ञापयन्ति, तथाहि-निदाघचरमसमये नभोमध्यमधिरूढे चण्डमहसि, मेघनिर्मुक्ते नभसि, कस्यापि पुंसो अत्यन्तपित्तप्रकोपाभिभूतस्य निषिद्धातपवारणस्य सर्वतो दीप्तवह्निज्वालाकरालस्य यादृगुष्णवेदना जायते ततोऽप्युष्णवेदनेषु नरकेषु नारकाणामनन्तगुणा, अपि च यदि नारका उष्णवेदनेभ्यो नरकेभ्य उत्पाट्य ज्वलत्खादिराङ्गारराशौ प्रक्षिप्य ध्मायन्ते तदा चन्दनलिप्ता इवाऽत्यन्तसुखान्निद्रामपि लभेरन् । तथा पौषे माघे वा रात्री निरभ्र नभसि हृदयादिकम्पकृति वाति मारुते हिमाचलस्थलीकृतस्थितेनिरग्नेनिराश्रयस्य निरावरणस्य तुषारकणसिक्ताङ्गस्य पुंसो या शीतवेदना ततोऽपि शीतवेदनेषु नरकेषु नारकाणामनन्तगुणा, किश्च यदि नारकाः शीतवेदनेभ्यो नरकेभ्य उत्पादय यथोक्तपुरुषस्थाने स्थाप्यन्ते तदा ते प्राप्तात्यन्तनिर्वातस्थाना इव निरुपमसुखान्निद्रामप्यासादयेयुरिति ॥ ८५ ॥
CREASEENERASACRICS
॥ २५
Jain Educah
ama
For Private & Personal use only
www.jainelibrary.org